SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ ||७७|| समुत्पन्न प्रचण्डादेवी श्यामवर्णा अश्वारूढां चतुभुजा वरदशक्तियुक्तदक्षिणकगं पुष्पगदायुक्तवामपाणि चेति ॥१२॥ तथा त्रयोदशं विमलनाथं कनकवर्ण बराहलाञ्छनं उत्तरभाद्रपदाजातं मीनराशि चेति । तत्तीर्थोत्पन्न पण्मुखं यक्ष श्वेतवर्ण शिखिवाहनं द्वादशभुजं फलचक्रवाणखड़गपाशाक्षसूत्रयुक्तदक्षिणपाणिं नकुलचक्रधनुःफलकाकुशाभययुक्तवामपाणि चेति । तस्मिन्नेव तीर्थे समुत्पन्नां विदितां देवी हरितालवर्णां पद्मारूढां चतुभुजां बाणपाशयुक्तदक्षिणपाणि धनुर्नागयुक्तवामपाणिं चेति ॥ १३ ॥ तथा चतुर्दशं अनन्तं जिनं हेमवर्ण श्येनलाञ्छनं स्वातिनक्षत्रोत्पन्नं तुलाराशि चेति । तत्तीर्थोत्पन्नं पातालयक्षं त्रिमुखं रक्तवर्ण मकरवाहनं षड्भुजं पद्मखड्गपाशयुक्तदक्षिणपाणिं नकुलफलकाक्षसूत्रयुक्तवामपाणिं चेति । तस्मिन्नेव तीर्थे समुत्पन्नां अङ्कुशां देवीं गौरवर्णां पद्मवाहनां चतुर्भुजा खड्गपाशयुक्तदक्षिणकरी चर्मफलकाङ्कुशयुतवामहस्ता चेति ॥ १४ ॥ तथा पञ्चदशं धर्मजिनं कनकवर्ण वज्रलाञ्छनं पुष्योत्पन्न कर्कराशि चेति । तत्तीर्थोत्पन्नं किंनरयझं त्रिमुख रक्तवर्ण कूर्मवाहनं षट्भुजं बीजपूरकगदाभययुक्तदक्षिणपाणिं नकुलपद्माक्षमालायुक्तवामपाणि चेति । तस्मिन्नेव तीर्थ समुत्पन्नां कन्दर्पा देवीं गौरवां मत्स्यवाहनां चतुभुजा उत्पलाङ्कुशयुक्तदक्षिणकरां पद्माभययुक्तवामहस्तां चेति ॥१॥ तथा षोडशं शान्तिनाथं हेमवर्ण मृगलाञ्छनं भरण्यां जातं मेषराशि चेति । तत्तीथोत्पन्न गरुडयक्षं वराहवाहनं क्रोडवदनं श्यामवर्ण चतुभुजं बीजपूरकवद्मयुक्तदक्षिणपाणिं नकुलकाक्षसूत्रवामपाणि चेति । तस्मिन्नेव तीर्थे समुत्पन्नां Jain Education anal For Private & Personal use only www.jainelibrary.org
SR No.600015
Book TitleNirvankalika
Original Sutra AuthorPadliptsuri
AuthorJinendravijay Gani
PublisherBhuvan Sudarshan Jain Granth Mala Devali Rajasthan
Publication Year1981
Total Pages104
LanguageSanskrit
ClassificationManuscript, Literature, & Art
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy