________________
निर्वाणकलिका.
॥७६॥
वराह(विडाल)वाहनां चतुभुजां खड्गमुद्गगरान्वितदक्षिणभुजा फलकपरशुयुतवामहस्तां चेति ॥८॥
तथा नवमं सुविधिजिनं धवलवर्ण मकरलाञ्छनं मूलनक्षत्रजातं धनूगशि चेति । तत्तीर्थोत्पन्नमजितयक्ष श्वेतवर्ण विवप्रतिष्ठा कूर्मवाहनं चतुभुजं मातु लिङ्गाक्षसूत्रयुक्तदक्षिण पाणिं नकुल कुन्तान्वितवामपाणिं चेति । तस्मिन्नेव तीर्थे समुत्पन्ना
विधि सुतारादेवी गौरवां वृषवाहनां चतुभुजा वरदाक्षसूत्रयुक्तदक्षिणभुजा कलशाकुशान्वितबामपाणिं चेति ।।6।।
तथा दशमं शीतलनाथं हेमाभं श्रीवत्सलाञ्छनं पूर्वाषाढोत्पन्नं धनूगशि चेति । तस्मिस्तीर्थे समुत्पन्नं ब्रह्मयक्षं K७६॥ चतुमुखं त्रिनेत्रं धवलवर्ण पद्मासनमष्टभुजं मातुलिङ्गमुद्गरपाशाभययुक्तदक्षिणपाणिं नकुलकगदाङ्कुशाक्षसूत्राविन्तवामपाणिं चेति । तस्मिन्नेव तीर्थे समुत्पन्नां अशोका देवीं मुद्गवर्णा पद्मवाहनां चतुभुजां वरदपाशयुक्तदक्षिणकगं फलाङ्कुशयुक्तवामकरां चेति ॥१०॥
तथैकादशं श्रेयांसं हेमवर्ण गण्डकलाञ्छनं श्रवणोत्पन्नं मकरराशि चेति । तत्तीर्थोत्पन्नमीश्वरयक्षं धवलवर्ण त्रिनेत्रं वृषभवाहनं चतुर्भुजं मातुलिङ्गगदान्वितदक्षिणपाणिं नकुलकाक्षसूत्रयुक्तवामपाणिं चेति । तस्मिन्नेव तीर्थे समुत्पन्नां मानवी देवी गौरवर्णा सिंहवाहनां चतुर्भुजां वरदमुद्गरान्वितदक्षिणपाणिं कलशाकुशयुक्तवामकरां चेति ॥ ११ ॥
तथा द्वादशं वासुपूज्यं रक्तवर्ण महिपलाञ्छनं शतभिपजि जातं कुम्भराशि चेति । तत्तीर्थोत्पन्नं कुमारयक्षं श्वेतवर्ण हंसवाहनं चतुर्भुजं मातुलिङ्गवाणान्वितदक्षिणपाणिं नकुल कधनुयुक्तिवामपाणि चेति । तस्मिन्नेव तीर्थे
Jain Education inte
For Private & Personal use only
jainelibrary.org