________________
॥७५॥
Jain Education
तथा चतुर्थमभिनन्दनजिनं कनकद्युतिं कपिलाञ्छनं श्रवणोत्पन्नं मकरराशि चेति । तत्तीर्थोत्पन्नमीश्ररक्षं श्यामवर्णं गजवाहनं चतुर्भुजं मातुलिङ्गाचमूत्रयुतदक्षिणपाणि नकुलाङ्कुरान्वितवामपाणि चेति । तस्मिन्नेव तीर्थे समुत्पन्नां कालिकादेवीं श्यामत्रणां पद्मासनां चतुर्भुजां वरदपाशाधिष्ठितः क्षिणभुजां नागाङ्कुशान्वितवामकरां चेति ॥४॥ तथा पञ्चमं सुमतिजिनं हेमवणं क्रौञ्चलाञ्छनं मघोत्पन्नं सिंहराशि चेति । तत्तीर्थोत्पन्नं तुम्बरुयक्षं गरुडवाहनं चतुर्भुजं वरदशक्तियुतदक्षिणपाणि नागपाशयुक्तवामहस्तं चेति । तस्मिन्नेव तीर्थे समुत्पन्नां महाकालीं देवीं सुवण पद्मवाहनां चतुर्भुजां वरदपाशाधिष्ठितदक्षिणकरां मातुलिङ्गाङ्कुशयुक्तवामभुजां चेति ॥ ५ ॥
तथा षष्ठं पद्मप्रभं रक्तवर्णं कमललाञ्छनं चित्रानक्षत्रजातं कन्याराशि चेति । तत्तीर्थोत्पन्नं कुसुमं यक्षं नीलवर्ण कुरङ्गवाहनं चतुर्भुजं फलाभययुक्तदक्षिणपाणि नकुलका क्षमूत्रयुक्त वामपाणि चेति तस्मिन्नेव तीर्थे समुत्पन्नामच्युत देवीं श्यामवर्णा नरवाहनां चतुर्भुजां वरदवी (बा) णान्वितदक्षिणकरां कामुकाभययुतवामहस्तां चेति ।। ६ ।।
तथा सप्तमं सुपार्श्व वर्ण स्वस्तिकलाञ्छनं विशाखोत्पन्नं तुलाराशि चेति । तत्तीर्थोत्पन्नं मातङ्गयक्षं नीलवर्णं गजवाहनं चतुर्भुजं वित्तपाशयुक्तदक्षिणपाणिं नकुल काङ्कुशान्वितवामपाणि चेति । तस्मिन्नेव तीर्थे समुत्पन्नां शान्तादेवीं सुवर्णवर्णां गजवाहनां चतुर्भुजां वरदाक्षसूत्रयुक्तदक्षिणकरां शूलाभययुतवामहस्तां चेति ॥ ७ ॥
तथाष्टमं चन्द्रप्रभजिनं धवलवर्णं चन्द्रलाञ्छनं अनुराधोत्पन्नं वृश्चिक राशि चेति । तत्तीर्थोत्पन्नं विजययक्षं हरितवर्णं त्रिनेत्रं हंसवाहनं द्विभुजं दक्षिणहस्ते चक्रं वामे मुद्गरमिति । तस्मिन्नेव तीर्थे समुत्पन्नां भृकुटिदेवीं पीतवण
For Private & Personal Use Only
ional
॥७५॥
www.jainelibrary.org