SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ निर्वाण कलिका. अहंदादीनां वर्णादिक्रमः 12011 110010 तथा चतुर्विंशतितमं वर्धमानस्वामिनं कनकप्रभ सिंहालाञ्छनं उत्तराफाल्गुन्यां जातं कन्याराशिं चेति । तत्तीथोत्पन्नं मातङ्गयक्ष श्यामवर्ण गजवाहनं द्विभुजं दक्षिणे नकुलं वामे चीजपूरकमिति । तत्तीर्थोत्पन्नां सिद्धायिका हरितवर्णा सिंहवाहनां चतुभुजां पुस्तकाभययुक्तदक्षिणकरां मातुलिङ्गवाणान्वितवामहस्तां चेति ।। २४ ॥ तथा श्रुतदेवता शुक्लवर्णां हंसवाहनां चतुर्भुजां वरदकमलान्वितदक्षिणकरां पुस्तकाक्षमालान्वितवामकर चेति । तथा शान्ति देवता धवलवां कमलासनां चतुभुजां वरदाक्षसूत्रयुक्तदक्षिणकरां कुण्डिका कमण्डलल्बन्वितवामकरां चेति ।। इति अर्हदादीनां वर्णादिक्रमकथनम् ॥ ॥१३॥ अथ विद्यादेवीनां षोडशकम् ।। तत्राद्यां रोहिणी धवलवां सुरभिवाहनां चतुभुजामक्षसूत्रवाणान्वितदक्षिणपाणि शङ्खधनुयुक्तवामपाणि चेति ।। १ ।। तथा प्रज्ञप्ति श्वेतवर्णा मयूरवाहनां चतुर्भुजां बरदशक्तियुक्तदक्षिणकरां मातुलिङ्गशक्तियुक्तवामहस्तां चेति ।। २ ।। तथा वज्रशृङ्खलां शङ्खावदाता पद्मवाहनां चतुर्भुजां वरदशृङ्खलान्वितदक्षिणकरां पद्मशृङ्खलाधिष्ठितबामकरी चेति ।। ३ ।। तथा वज्राङ्कुशां कनकवर्गां गजवाहनां चतुभुजा वरदवज्रयुतदक्षिणकरां मातुलिङ्गाङ्कुशयुक्तवामहस्तां चेति ।। ४ ।। तथा अप्रतिचक्रां तडिद्वर्णा गरुडवाहनां चतुभुजां चकचतुष्टयभूपितकरां चेति तथा पुरुषदत्ता कनकावदातां महिषीवाहनां चतुभुजां वरदासियुक्तदक्षिणकगं मातुलिङ्गखेटकयुतवामहस्तां चेति ॥ ६ ॥ तथा काली देवीं कृष्णवां पद्मासनां चतुभुजां अक्षसूत्रगदालङ्कृतदक्षिणकरा बछाभययुतवामहस्तां चेति ।। ७ ।। Jain Education in o ral For Private & Personal use only Jw.jainelibrary.org I
SR No.600015
Book TitleNirvankalika
Original Sutra AuthorPadliptsuri
AuthorJinendravijay Gani
PublisherBhuvan Sudarshan Jain Granth Mala Devali Rajasthan
Publication Year1981
Total Pages104
LanguageSanskrit
ClassificationManuscript, Literature, & Art
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy