________________
॥७१॥
इदानीं प्रतिष्ठोपयोगिमुद्राः । उत्तानो किञ्चिदाकुञ्चितकरशाखी पाणी विधारयेदिति अञ्जलिमुद्रा || १ || ४५॥ अभयाकारौ समश्रेणिस्थिताङ्गुलीको करौ विधायाङ्गुष्ठयोः परस्पग्ग्रथनेन कपाटमुद्रा || २ || ४६ ।। चतुरङ्गुलमग्रतः पादयोरन्तरं किञ्चिन्न्यूनं च पृष्ठतः कृत्वा समपादकायोत्सर्गेण जिनमुद्रा ॥ ३ ॥ ४७ ॥ परस्पराभिमुखौ ग्रथिताङ्गुलीको करौ कृत्वा तर्जनीभ्यामनामिके गृहीत्वा मध्यमे प्रसार्य तन्मध्येऽङ्गुष्ठद्वयं निक्षिपेदिति सौभाग्यमुद्रा ॥ ४ ॥ ४८ ॥
वामहस्वाङ्गुलितर्जन्या कनिष्ठिकामाक्रम्य वर्जन्यग्रं मध्यमया कनिष्ठिकाग्रं पुनरनामिकया आकुञ्न्य मध्येऽङ्गुष्ठं निक्षिपेदिति योनिमुद्रा ।। ५ ।। ४६ ।।
Jain Education national
आत्मनोऽभिमुख दक्षिणहस्तकनिष्ठिकया वामकनिष्ठिकां संगृह्याधः परावर्तितहस्ताभ्यां गरुडमुद्रा ।। ६ ।। ५० ।। संलग्नौ दक्षिणाङ्गुष्ठाक्रान्तामाद्गुष्ठपाणीति नमस्कृतिमुद्रा ॥ ७ ॥ ५१ ॥ किञ्चित् गर्भित हस्तौ समौ विधाय ललाटदेशयोजनेन मुक्ताशुक्तिमुद्रा ॥ ८ ॥ ५२ ॥ जानुहस्तोत्तमाङ्गादिसंप्रणिपातेन प्रणिपातमुद्रा ॥ ६ ।। ५३ ।।
संमुखहस्ताभ्यां वेणीबन्धं विधाय मध्यमाङ्गुष्ठकनिष्टिकानां परस्परयोजनेन त्रिशिखमुद्रा ॥ १० ॥ ५४ ॥ पराङ्मुखहस्ताभ्यामङ्गुली र्विदर्म्य मुष्टिं बध्वा तर्जंन्यौ समीकृत्य प्रसारयेदिति भृङ्गारमुद्रा ।। ११ ।। ५५ ।। वामहस्तमणिबन्धोपरि पराङ्मुखं दक्षिणकरं कृत्वा करशाखा विदर्भ्य किश्चिद्वामवलनेनाधोमुखाङ्गुष्ठाभ्यां मुष्टि
For Private & Personal Use Only
149211
www.jainelibrary.org