________________
निर्वाणकलिका.
विवप्रतिष्ठा
विधिः
॥७
॥
॥७
॥
दक्षिणहस्तेन मुष्टिं बद्ध वा तर्जनी प्रसारयेदिति दण्डमद्रा॥१॥३७॥
परस्परोन्मुखौ मणिवन्धाभिमुखकरशाखौ करौ कृत्वा ततो दक्षिणाङ्गुष्ठकनिष्ठिकाभ्यां वाममध्यमानामिके तर्जनी च तथा वामाङ्गुष्टकनिष्ठिकाभ्यामितरस्य मध्यमानामिके तर्जनी समाक्रमयेदिति पाशमुद्रा ॥२॥३८ ।।
परस्पराभिमुखमाङ गुल्यौ करौ कृत्वा तर्जनीमध्यमानामिका विरलीकृत्य परस्परं संयोज्य कनिष्ठिकाङ गुष्ठौ पातयेदिति शूलमद्रा ॥ ३ ॥ ३६॥ यद्वा पताकाकारं करं कृत्वा कनिष्ठिकामङ गुष्ठेनाक्रम्य शेषाङ गुलीः प्रसारयेदिति शलमुद्रा द्वितीया ॥४॥
॥४०॥ एताः पूर्वोक्ताभिः सह दिक्पालानां मुद्राः॥ ग्राह्यस्योपरि हस्तं प्रसायं कनिष्ठिकादितर्जन्यन्तानामगुलीनां क्रमसङ्कोचनेनाङ्गुष्ठमूलानयनात् संहारमुद्रा ।
॥१॥४१॥ विसर्जनमुद्रेयम् ॥ उत्तानहस्तद्वयेन वेणीवन्धं विधायागुष्ठाभ्यां कनिष्ठिके तर्जनीभ्यां च मध्यमे संगृह्यानामिके समीकुर्यादिति परमेष्ठिमुद्रा ॥ १ ॥ ४२ ॥
यद्वा वामकराङ गुलीरूर्वीकृत्य मध्यमा मध्यमे कुर्यादिति द्वितीया ॥२॥ ४३ ।।
पराङ्मुखहस्ताभ्यां वेणीवन्धं विधायाभिमुखीकृत्य तर्जन्यौ संश्लेष्य शेषाङगुलिमध्ये अङ्गुष्ठद्वयं विन्यसेदिति पाश्र्वमुद्रा ॥ ३ ॥ ४४ ॥
एता देवदर्शनमुद्राः॥
बा. के. सा.
Jain Education Inter
!!
For Private & Personal Use Only
M
ainelibrary.org