________________
॥६३॥
दण्डप्रमाणमवसेयम् । ध्वजं चायापतो जङ्घार्धलम्बिजङ्घान्तं दण्डप्रमाणं च कर्तव्यम् । विस्तरतस्तु दशद्वादशषोडशाङ्गुल इति ।
मुक्ते हस्तोच्छिते कलशात्कर्ता रोगातङ्कवर्जितः स्यात् । द्विहस्तोच्छिते बहुप्रजो भवति । त्रिहस्तोच्छिते धनधान्यैर्वर्धते । चतुर्हस्तोच्छिते नृपवृद्धिः । पञ्चहस्तोच्छिते सुभिक्षं राष्ट्रवृद्धिश्चेति । तथा प्राच्या गते कर्ता सर्वकामावाप्ति आग्नेय्यां तापं याभ्यां व्याधिभयं नैऋत्यां रोगातकं वारुण्या मित्रभावं वायव्यं धान्यसम्पदं उदीच्यां धनलाभं ऐशान्यामायुवृद्धि प्राप्नोतीति ।। तत्राशुभाशागते केतौ नमस्कारसहस्र जपित्वा विशेषपूजां विधाय शान्ति कुर्यात् ॥ इति शङकुप्रतिष्ठा पञ्चमी ।।
अथ वेदिकालक्षणम् ।। तत्र नन्दा सुनन्दा प्रबुद्धा सुप्रभा सुमङ्गला कुमुदमाला विमला पुण्डरीकिण्याख्या अष्टवेदिकाः । तत्रायापविस्ताराभ्यां हस्तप्रमाणा चतुरङ्गुलोच्छ्या नन्दा । शेषास्तु विष्कम्भायामयोर्यथोत्तरं ह्रासवृद्धया पिण्डे चतुरङगुलाधिक्येनोत्तरोत्तरप्रवृद्धाः स्युः। तासां च मध्ये पूर्ववच्चतुरस्त्र क्षेत्रं संसाध्य नन्दाद्येकतमां विचित्रमणिमयेन रजसा वेदिका निष्पाद्य तत्कोणेषु ब्राह्मणक्षत्रियवैश्यशूद्राणां यथाक्रमं पलाशन्यग्रोधोदम्बरशमीमयान कीलकान्निवेशयेत् । यद्वा सर्वेषां वर्णानां वंशमयाः शस्तास्ते सर्वेऽप्येकदारुमया निणा ऊर्ध्वशाखाश्रिता राजकोटरवर्जिता निर्ग्रन्थयो द्वादशाङ्गुलप्रमाणाः कर्तव्याः ते च काष्ठलोष्ठलोहाश्मभिर्न हन्तव्याः । वेधश्च त्याज्यः ।।
॥ इति वेदिकालक्षणम् ॥
॥६३॥
Jain Education Intel
For Private & Personal Use Only
wjainelibrary.org