________________
निर्वाणकलिका.
॥६४॥
Jah Education Inter
||१|| अथ जाणोद्धारविधिः ॥ तत्र खण्डितस्फुटितभग्नवलितपतित जीर्णं दग्धसगर्भत्रण दूषितन्यूनाधिकवक्रविकराल भीषणदोषदुष्टं मन्त्रासन्निधानात् पिशाचादीनामधिष्ठानभूतं विम्बमुद्धृत्य बिम्बान्तरं प्रतिष्ठापयेत् ।
मन्त्र (तत्रा)चार्यः प्रातरुत्थाय कृतशौचस्नानविधिर्विहितसकलीकरणः खण्डितस्फुटित भग्नादिकारण विम्यान्तरं तु कामः शान्त्यर्थं दिक्पालानां बलिं दद्यात् ।
ततः ॐ इन्द्राय प्रतिगृह स्वाहा । ॐअग्नये प्रतिगृह स्वाहा । ॐ यमाय प्रतिगृह स्वाहा । ॐ नैर्ऋतये प्रतिगृह्ण स्वाहा । ॐ वरुणाय प्रतिगृह स्वाहा । ॐ वायवे प्रतिगृह स्वाहा । ॐ कुबेराय प्रतिगृह स्वाहा । ॐ ईशानाय प्रतिगृह स्वाहा । ॐ ब्रह्मणे प्रतिगृह्ण स्वाहा । ॐ नागाय प्रतिगृह्ण स्वाहा | इति स्वस्वदितु यथाक्रमं बहिर्बलिं प्रक्षिप्य वायव्यां ॐ क्षं क्षेत्रपालाय स्वाहेति क्षेत्रपालाय बलिं दत्वा । ॐ सर्वभूतेभ्यो वषट् स्वाहेति भृतादीन् संतर्प्य चैत्यादिवन्दनं कृत्वा मण्डलसमीपमागत्य स्वासनं प्रणवेन संपूज्य समुपविश्य भूतशुद्धिं कलीकरणं विशेषार्धपात्रद्रव्यशुद्धिं कृत्वा आसनपूजाप्रभृत्यावाहनान्तं कर्म कृत्वाऽर्घपाद्याचमनीयानि दत्वा निन्यविधिना साङ्गं भगवन्तं सम्पूज्य । ततः प्राच्यां । ॐ इन्द्राय स्वाहा । ॐ वज्राय स्वाहा | आग्नेय्यां ॐ अग्नये स्वाहा । ॐ शक्तये स्वाहा । याम्यायां ॐ यमाय स्वाहा । ॐ दण्डाय स्वाहा । नैऋत्यां ॐ नैऋ तये स्वाहा । ॐ खड्गाय स्वाहा । वारुण्यां ॐ वरुणाय स्वाहा । ॐ पाशाय
For Private & Personal Use Only
चित्रप्रतिष्ठ
विधि.
॥६४॥
ainelibrary.org