SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ निर्वाणकलिका. विप्रतिष्ठा विधिः ॥६२॥ ॥६२॥ यथाक्रम स्थापयेत् । ततश्च लग्नसमये ध्वजाधारे रत्नपञ्चकं निक्षिप्य प्रणवासनं दत्वा वामनाडीप्राणेन सहोभृतं दण्ड मूलमन्त्रेण निवेशयेत् । ततो मुद्रासहिताभिमन्त्रितकलशेन तत्कालोचितफलैर्धान्यैश्च घटमापूर्य कलशस्याभिषेकं कृत्वा श्वेतवाससी परिधापयेत् । तदनु मङ्गलशहतूर्यादिनिषों महाध्वज प्रसार्य चतुर्विधश्रीश्रमणसधेन स्ववान्धवयुतेन यजमानेन सह प्रदक्षिणात्रयं विधाय आचार्यों ध्वजाग्रं श्रीमद्देवपादमूले संनिरोध्य शान्तिवलि प्रक्षिप्य देवं सम्पूज्य क्षमापयेत् । तदनु कारापकायध्वजचटापनफलं श्रावयेत् । तद्यथा ॥ देवस्यायतने भक्त्या ध्वजमारोपयन्ति ये । त्रैलोक्यश्रीस्तनोत्सङ्गे 'स्वं समारोपयन्ति ते ॥१॥ धत्ते ध्वजोत्र धन्यानां सुरस शिरःस्थितः । तरङ्गिततनुः साक्षात् स्वर्गनिःश्रेणिरूपताम् ॥ २ ॥ यावन्तः प्राणिनस्तत्र लग्नाः कुयुः प्रदक्षिणाः। तावन्तः प्राप्नुवन्त्यत्र शिवस्थानकमुत्तमम् ॥ ३॥ सच श्रुत्वा कृतकृत्यमात्मानं मन्यमानो देवगुरुसङ्घपूजा विधाय दीनानाथानां चानुकम्पया स्वविभावानुरूप मन्नदानादिकं दद्यादिति ॥ दण्डं च नूतनं वेणुमयं अव्यड्गं सत्वचं सरलं शुभदेश प्रवर्धमानपर्व सर्वलक्षणसंयुतमाचार्यो गृहीत्वा देवप्रासादमानेन प्रमाण परिकल्पयेत् । तच्च हस्तात्प्रभृति नवहस्तपर्यन्तेषु प्रतिमाप्रासादेषु चतुष्करादारभ्य द्विवृद्ध्या १ स्वामिति पाठान्तम् । For Private & Personal Use Only KOw.jainelibrary.org Jan Education a nal INI
SR No.600015
Book TitleNirvankalika
Original Sutra AuthorPadliptsuri
AuthorJinendravijay Gani
PublisherBhuvan Sudarshan Jain Granth Mala Devali Rajasthan
Publication Year1981
Total Pages104
LanguageSanskrit
ClassificationManuscript, Literature, & Art
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy