SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ I ॥६॥ शुकनासोध्व गर्भगृहे खट्वायां हेमाद्येकतमं कुम्भं मूर्तिभूतं विन्यस्य मधुघृताभ्यामापूर्य रत्नादिपञ्चकं विन्यस्य चन्दनादिना आलिप्य शुक्ले वाससी परिधाप्य रत्रपुरुषं विन्यसेत् । ततो भगवन्तं संपूज्याचार्याणां यथाशक्त्या पूजां विधाय भगवन्तं क्षामयेत् ।। ।। इति हृत्प्रतिष्ठा चतुर्थी ॥ अथ चूलिकादिप्रतिष्ठाविधिः । तत्र पूर्ववत मण्डपवेदिकादिकं विधाय प्रतिष्ठोपयोगिद्रव्यजातमानीय भतवलिं विधाय चैत्यवन्दनं कुर्यात् । तदनु चोत्तरवेदिकायां चूलकं कलशं व धर्मचक्रं द्रव्यजातं चानीय रत्नौषधिकषायाष्टवर्गमृञ्चन्दनसर्वोषध्यादिजलकलशैः संस्थाप्य श्वेते वाससी परिधाप्य अधिवासनामण्डपं प्रदक्षिणीकृत्य पूर्वद्वारेणान्तः प्रविश्य मूलवेदिकायां पर्यङ्क निवेश्य प्रतिमावत् सर्वेषां विधायात्ममन्त्रेण गन्धधूपपुष्पादतादिभिरधिवास्य बलिं निवेदयेत् । तदनु प्रासादं गत्वा कुम्भकजङ्घाशिखरकण्ठामल सारकेषु ब्रह्मपश्चकं पृथिव्यादीनि च तत्वानि विन्यस्य पुष्पाक्षतादिभिर्मलमन्त्रेण प्रासादमधिवासयेत् । ततो ध्वजं खमनेत्रपट्टांशुकादिनिर्मितं कनकपण्टिकापर्धरिकोपशोभितं विचित्र पुष्पकटकालते वृषभादिचिहिते दण्डे संयोज्य ईशान्यां मण्डलके कुम्भ विन्यस्य तस्योपरि तलिकायां महाध्वजं प्रासादायतिमानं लग्नसमये कृत्या देशिकः शिल्पी वाऽन्यतमो वा प्रासादं प्रदक्षिणीकृत्य शुभाशयः प्रासादमधिरोहयेत् ।। ततश्चारुशक्ति चूलकाधारे रत्नपञ्चक विन्यस्य वाममार्गानुगामिना प्राणन चूलकं कलशं व धर्मचक्र च ॥६ ॥ www.jainelibrary.org Jain Education For Private & Personal Use Only ona
SR No.600015
Book TitleNirvankalika
Original Sutra AuthorPadliptsuri
AuthorJinendravijay Gani
PublisherBhuvan Sudarshan Jain Granth Mala Devali Rajasthan
Publication Year1981
Total Pages104
LanguageSanskrit
ClassificationManuscript, Literature, & Art
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy