SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ निर्वाण- कलिका. विवप्रतिष्ठा विधिः ॥४२॥ ॐ नमो न्यग्रोधात्मकेभ्यः सुराधिपतोरणेभ्यः स्वाहा ।। ॐ नम उदुम्बरात्मकेभ्यः धर्मराजतोरणेभ्यः स्वाहा २ । ॐ नमः अश्वत्थात्मकेभ्यः सुरा(सलिला)धिपतोरणेभ्यः स्वाहा ३। ॐ नमः प्लक्षात्मकेभ्यः यक्षाधिपतोरणेभ्यः स्वाहा ४॥ इति तोरणपूजामन्त्राः। ॐ नमः पूर्वद्वारव्यवस्थितेभ्यो धर्मध्वजेभ्यः स्वाहा १ । ॐ नमो दक्षिणद्वारव्यवस्थितेभ्यो मानध्वजेभ्यः स्वाहा २॥ ॐ नमः पश्चिमद्वारव्यवस्थितेभ्यो गजध्वजेभ्यः स्वाहा ३। ॐ नमः उत्तरद्वारव्यवस्थितेभ्यः सिंहध्वजेभ्यः स्वाहा ४ ।। इति ध्वजानां पूजामन्त्राः । ॐ नमः पीतद्युतिवज्रलाञ्छितकठिनात्मने पृथिवीमण्डलाय स्वाहा ।। ॐ नमः कृष्णातिषड्विन्दुलाञ्छितवृत्तात्मने वायुमण्डलाय स्वाहा २॥ इति मण्डलपूजामन्त्रः। एवमुक्तानुक्तमपि प्रणवादिस्वाहान्तैः स्वस्वनाममिः पूज्यम् ॥ इति नन्दावर्तपूजा ॥ ततो धृपमुत्क्षिप्य नानाकन्दमूलफलपक्काब्रहृयो बलिः प्रदेयः। सदशेन सितवाससा नूतनेन पट्टमाच्छाद्य पुष्पाक्षतचन्दनादिना वस्त्रोपरि सम्पूज्य स्थिरप्रतिमा तत्कर्णिकायां परिकल्प्य चलप्रतिमा तत्रैव स्थापयेदिति । ततः पुष्पाक्षतचन्दनवासयवालिकाकङ्कणसदशवस्त्रोपरि सम्पूज्य मदनफलानि सौभाग्यमन्त्रेणाधिवासनामन्त्रेण वा मुद्राभिश्चाभिमन्य प्रतिमासमीपं गत्वा चन्दनेन प्रतिमा सर्वाङ्गा विलेपयेत् । ततः पुष्पाण्यारोप्य वासक्षेपं कृत्वा तदनु कपाटजिनचक्रमुद्राभ्यां शक्ति तेजस्विनी कृत्वा पञ्चस्वष्टसु चाङ्गेष्वाचार्यमन्त्रेण द्वितीयेन मन्त्रन्यासं विधाय For Private & Personal Use Only Jain Education in jainelibrary.org
SR No.600015
Book TitleNirvankalika
Original Sutra AuthorPadliptsuri
AuthorJinendravijay Gani
PublisherBhuvan Sudarshan Jain Granth Mala Devali Rajasthan
Publication Year1981
Total Pages104
LanguageSanskrit
ClassificationManuscript, Literature, & Art
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy