________________
निर्वाणकलिका.
॥३६॥
अथ नन्दावत्तपूजामन्त्राः। ॐ नमो अर्हते जिनाय रजोद्दननायाऽघोरस्वभावाय निरतिशयपूजार्हाय अरुहाय भगवते हा अर्हत्परमेष्ठिने । विवप्रतिष्ठा स्वाहा।
विधि. ॐ नमः स्वयम्भुवे अजराय मृत्युञ्जयाय निरामयाय अनिधनाय भगवते निरञ्जनाय ह्रीं सिद्धपरमेष्ठिने स्वाहा । ॐनमः पञ्चविधाचारदिने तदाचरणशीलाय तत्प्रवर्तकाय हूँ. आचार्यपरमेष्ठिने स्वाहा । ॐनमो द्वादशाङ्गपरमस्वाध्यायसमृद्धाय तत्प्रदानोधताय ह्रौं उपाध्यायाय ब्रह्मणे स्वाहा । ॐनमः स्वर्गापवर्गसाधकाय हः साधुमहात्मने स्वाहा ।। पञ्चपरमेष्ठिजामन्त्राः।
ॐनमः परमाभ्युदयनिःश्रेयसहेतवे ज्ञानाय नमः । रत्नत्रयादीनां मन्त्राः ।
ॐनमः शुचित्वापादिकायै शुचिविद्यायै स्वाहा । ॐनमः सौधर्मकल्पोत्तरस्थितये ऐरावतवाहनाय वज्रपाणिशचीपतिविबुधाधीशभास्वकिरीटप्रच्युतिसमनन्तरापवर्गभाक्शक्राय स्वाहा । ॐ नमो दक्षिणपार्थासीनधवलमूर्तिवरदपद्माक्षसूत्रपुस्तकालंकृतानेकपाणिद्वादशाङ्गश्रुतदेवाधि(दि)देवते सरस्वत्यै स्वाहा । ॐ नमो ईशानकल्पोत्तरस्थितये गजवाहनसदेवीकदिव्यायुधपाणिदेवाधीशकनककिरीटोद्भासिने ईशानाय स्वाहा । ॐ नमो वामपार्थासीन धवलद्युतिवरदकमलपुस्तककमण्डलुभूषितानेकपाणिसकलजनशान्तिकारिक शान्तिदेन्यै स्वाहा । ॐ नमो दिव्यरत्नात्मने नन्दावर्ताय स्वाहा । ॐनमः सर्वरचाविधायिने बजाय स्वाहा । ॐ नमो जयाभ्युदयात्मने यवाय स्वाहा । ॐ नमः समस्तविघ्न
॥३६॥
Jain Education inte
For Private & Personal Use Only
Mainelibrary.org