________________
॥३३॥ |
बहिश्चतुर्दागन्वित प्राकारत्रयं श्रीशान्तिभूतिबलारोग्यसंज्ञकैस्तोरणैरलकृतं धर्ममानगजसिंहध्वजः समन्वितमालिख्यानन्तरं प्रथमप्राकारपूर्वादिद्वाराभ्यन्तर उभयपावें कनकपीतसितारक्तकृष्णवर्णानि वैमानिकव्यन्तरज्योतिष्कभवनपतिदेवानां युगलानि प्रथमप्राकारद्वारपालान् खड्गदण्डधनुःपरशुसमन्वितान सोमयपवरुणकुबेराख्यान्मध्ये च यष्टिहस्तं तुम्बुरुदेवं विलिख्य ।
ततो द्वितीयप्राकारद्वारेषु जया विजया अजिता अपराजिताभिधाना द्वारपालीः तृतीयप्राकारद्वारेषु तुम्बरु चाभिलिख्य तदनु द्वितीयप्राकारान्तरे तिरश्चः तृतीयप्राकारान्तरे वाहनानि बाह्यभूमौ मनुष्यदेवानालिख्य । चतुद्वारोभयपाश्र्वेषु पधिनीखण्डमण्डिताः पुष्करिणीविलिखेत् ।
ततो वज्रलाञ्छितमिन्द्रपुरं दत्वा दिक्षु परविद्या क्षः फुट कोणेषु परमंत्रा क्षः फुट चतुकोणेषु पद्मासनानि समारोप्य पद्मपिधानांश्चतुरो मङ्गलकलशान् लिखित्वा बाह्य वायुभवनं दद्यात् । इत्येतत्सर्व कपूरगोरोचनामृगमदमिश्रेण कुङ्कुमरसेन काश्चनतूलिकया सन्मण्डल बिलिखेत । ___तदनु तन्मध्यकर्णिकायां भगवन्तमावास पुष्पाक्षतचन्दनादिभिः सम्पूज्य पूर्वपश्चिमदक्षिणोत्तरासु सिद्धादिचतुकं आग्नेयनैऋतवायव्यैशानेषु ज्ञानादिचतुष्कं च पूजयेत् ।
ततो दक्षिण भागे देवस्य शकश्रुतदेवते उत्तरतश्चेशानशान्तिदेवते सम्पूज्य केसरेषु मातृगणं प्रणवादिनमोन्तं सम्पूजयेत् ।
॥३३॥
Jan Education Inte
l
For Private & Personal Use Only
Mainelibrary.org