________________
निर्वाण
कलिका.
॥३२॥
Jain Education Inter
ॐ नमो यः सर्वशरीरावस्थिते मेदिनि पुरु पुरु पुष्पवति पुष्पं गृद्ध गृह स्वाहेति समस्तस्नानान
पुष्पमन्त्रोऽयम् ।
ॐ नमो यः सर्वशरीरावस्थिते दह दह महाभूते तेजोधिपतये धूपं गृह गृह स्वाहेति समस्तस्नानानां धूपमन्त्रोऽयम् ।
देवाशुद्धिं विधाय परमेष्ठिमुद्रया प्रतिमायां भगवन्तमावाहयेत् । ॐ नमोऽर्हत्परमेश्वराय चतुर्मुखपरमेष्ठिने त्रैलोक्यनताय अष्टदिक्कुमारीपरिपूजिताय देवाधिदेवाय दिव्य शरीराय त्रैलोक्यमहिताय आगच्छ आगच्छ स्वाहा । ततोऽभिमन्त्रितचन्दनेन प्रतिमां सर्वाङ्ग समालिप्य अञ्जलिमुद्रया पुष्पाण्यधिरोप्य धूपं चोद्ग्राह्य वासान् प्रक्षिप्य श्वेतवाससा प्रच्छाद्य मूलमन्त्रेण संपूज्य हृदये संस्थाप्य मण्डपं प्रदक्षिणीकृत्य हिरण्यकस्वरत्नकरम्वकपर्दकप्रक्षेपपूर्वकं नीत्वा मण्डपाग्रे हृदये रथात्समुत्तार्य पश्चिमद्वारेण मण्डपं प्रवेश्य भद्रपीठे संस्थाप्य अग्रतः पीठिकायां नन्दावर्ताख्यमण्डले मन्त्रान् सम्पूजयेत् ।
तत्र चन्दनानुलिप्ते श्रीपर्णीफलके पूर्ववत् चतुरस्र क्षेत्रं संसाध्य ब्रह्मस्थानात् सूत्रभ्रमेण सप्तवृत्तानि कृत्वा प्रथमवृत्ते तद्वृत्तप्रमाणां कर्णिका तन्मध्ये नवकोणं नन्दा (न्या) वर्त, पूर्वादिदिक्षु वज्रयवाङ्कुश सुमनोदामानि च लिखित्वा । ततो द्वितीयवृत्ते मूलमध्याग्रेषु शुक्लरक्तपीतं केसरजालं चतुर्विंशतिमायुतं तृतीयादिवृतेषु चतुर्विंशतिषोडशाष्टपत्रसंख्यया क्रमेण पद्मानि च निष्पाद्य आग्नेयनैऋ' तवायव्येशानासु द्वादशगणा विलिखेत् ।
For Private & Personal Use Only
विवप्रतिष्ठा विधि.
।'३२॥
ainelibrary.org