________________
॥३१॥
Jain Education Inter
ॐ 'क्ष्मः हस्तयोरिति कुङ्कुम श्रीखण्डकपूरादिना चक्षुः प्रतिस्फोटादिनिवारणाय प्रतिमायां विलिखेत् ।
तदनु ॐ हूं क्षू फुट् किरिटि किरिटि घातय घातय परविघ्नानास्फोटयास्फोटय सहस्रखण्डान् कुरु कुरु परमुद्रां छिन्द हिन्द परममन्त्रान् भिन्द भिन्द क्षः फट् स्वाहेत्यनेन श्वेतसर्षपान् परिक्षिप्य दिग्बन्धाय पूर्वादिकाष्टासु विनिक्षिप्य तदनु चाचार्यश्चतुरः कलशान् गालिताम्भसा प्रपूर्य पुष्पाक्षतादिभिः सम्पूज्य मन्त्र लभ्य स्थपतिं च वस्त्रालङ्कारनाम्बूलादिना संपूज्य मुद्रितं कलशं समर्प्य शेषांश्चेन्द्रादीनां समप्येष्ट | शसमये सूत्रधारकलशपुरःसरां प्रतिमां स्नापयेत् ।
॥ इति प्रथमं कलशस्नानम् ॥
ततः सप्तधान्यरत्नमृत्तिकाकषायोपधिअष्टवर्ग सर्वौषधिपञ्चामृतगन्धवासचन्दन कुङ्कुम कपूरतीर्थोदकादियुक्तैः स्त्रस्वमुद्राभिमन्त्रितैः कुम्भैः स्नापयेदिति ॥ अत्र स्नान मन्त्राः |
ॐ नमो यः सर्वशरीरावस्थिते महाभूते आ ४ जलं गृह गृह स्वाहेति प्रथमस्नानपट्कस्यायं मन्त्रः । ॐ नमो यः सर्वशरीरावस्थिते पृथु विपृथु विपृथु गन्धं गृह गृह स्वाहेत्यष्टवर्गादिस्नान समूहस्यायं
मन्त्रः ।
१. क्षः पाठान्तरम् ।
For Private & Personal Use Only
॥३१॥
lainelibrary.org