________________
निर्वाण
कलिका.
॥२६॥
Jain Education Inter
इति निष्ठुरया संनिरोध्य शिलां पूजयेत् । पूर्वादिशिलासु च तत्त्वानि सर्वाणि विन्यस्य निरोध्य पूजयेत् ॥
अथ शिला कुम्भनामानि-नन्दा भद्रा जया रिक्ता चेति हस्तप्रमाणा अष्टाङ्गुलोच्छ्रिताः स्वस्तिकाङ्किताः शैलमये शैलमयाः इष्टिकामये तन्मयाः पद्म- महापद्म - शङ्ख-परकत - समुद्राख्याः कुम्भा इति पञ्चमूर्तिपक्षः । नवपक्षे तु सुभद्र - विभद्र - सुदन्त - जय - विजय - पूर्व - उत्तर - संज्ञकाः शिलाः । सुनन्दा भद्रा जया पूर्णा अजिता विजया मङ्गला धरणीसंज्ञकाः मध्यस्था ब्रह्मरूपिणीति ।
ततः शिलां कुम्भश्चादाय प्रासादस्थानमागत्य गर्तासु ॐ अहं जिनाय नमः इति मध्यमगर्तायां कुम्भं विन्यस्य लग्नकाले सिद्धशक्ति विन्यस्य संचिन्त्य ॐ ह्रां (ह्रौं ) जिनाय स्वाहेति मन्त्रमुच्चार्य नमस्कारेण शिल निवेशयेत् ।
ततः पूर्वादिगर्तासु सिद्धानां शक्ति विन्यस्य तदनन्तरं । ॐ हूं इन्द्राय नमः । ॐ अग्नये नमः । ॐ सूं यमाय नमः । ॐ षू नैर्ऋतये नमः । ॐ वू (ब्लु) वरुणाय नमः । ॐ गू ं वायवे नमः । ॐ यूं कुबेराय नमः । ॐ हूं ईशानाय नमः । ॐ नागाप नमः । ॐ ब्रह्मणे नमः । इति लोकेशमन्त्रेताम्रमयकुम्भान् घृतमधुपूरितान् कृतकसूत्रकण्ठान् विन्यस्य तेषामुपरि शिलाः संस्थाप्य धर्मादिचतुष्कं अधर्मादिचतुष्कं च शिलानामधिष्ठायकत्वेन विन्यस्य विशेषतः पूजां विधाय ततः संघादिकं पूजयेदिति । पादकास्ते तु संकल्पाः प्रासादस्य तु देशिकैः । सिद्धशक्ति तु संयोज्य व्योमप्रासादमध्यगाम् ।।
॥ इति पादप्रतिष्ठा प्रथमा ॥
For Private & Personal Use Only
पादप्रतिष्ठा प्रथमा
॥ २६ ॥
ainelibrary.org