________________
निर्वाणकलिका.
नित्यकर्मविधि.
KI ॥१६॥
॥३॥ अथाचार्याभिषेकः ॥ आभिषेकिकनक्षत्रे स्वानुकूले सतारे चन्द्रे षट्त्रिंशद्गुणालङ्कृतस्य श्रुतशीलगुणाचारसम्पन्नस्य कुर्यात् । तत्र दिक्पालानां चलिं दत्वा शुभेऽति मङ्गलपूर्वकपविधवानारीभिस्तैलादिकर्मविधिना वर्णकं समारोप्य द्वदशाह दशाहं वा क्षीरानभोजिनं पञ्चनमस्कारअपनिरतं शिष्यं विधाय आसन्नलग्नदिने संध्यायां व्याघाताधकतमं कालं संशोध्य प्रातरुत्थाय शुद्धकालं प्रवेद्य स्वाध्यायं प्रस्थाप्य ततश्चैशान्यां मण्डपवेदिकायां चतुर्हस्तं रजोभिश्च पञ्चवणेरुपशोभितं मध्यलिखितद्वात्रिंशदगुलं शुक्लपद्म द्वात्रिंशद गुलायाम पोडशाङ्गुलं विस्तृतावाहनीयद्वाराभिमुखसर्वरजोमुक्तपादपीठसहितं बाह्यचित्रवल्लीद्वारमक्षकोणस्थकन्दुकाद्यपशोभितं स्वस्वदिक्स्थावाहनीयद्वारपूर्वदिग्वाहितद्वारं वा मण्डलमालिखेत् ।
तत्र वीथ्यन्तर्गतान् पूर्वादिक्रमेण शुक्लरजसाऽष्टौ शङ्खान् आनन्द-सुनन्द-नन्दि-नन्दिवर्धन-श्रीमुख-विजयतार-सुतार-संज्ञान सुभद्र-वि(विजय)भद्र-सुदन्त-पुष्पदन्त-जय-विजय-कुम्भ-पूर्णकुम्भसंज्ञाश्च तथाविधान कुम्भानालिखेत् । मण्डलस्योपरि धवलं विचित्रं वा किङ्किणीघण्टायुक्त मुक्ताजालगवाक्षकोपेतं मणिदामोपशोभितं सच्चामरपट्टवस्त्रोपेतं लम्बमानप्रतिसरकन्दुकाधलङ्कृतं वितानकं विदधीत । मण्डपस्याभ्यन्ततरं क्वचित्पमिनीपत्रसंछन्नमन्तरालेषु बहिश्च गौरसर्षपलाजाखण्डतण्डुलयवदुर्वाकाण्डरजोभिश्च विचित्रं कुर्यात् । तोरणं चास्य बजाङ्कुशची(वा)रमण्डितं चन्दनमालायुक्तं पूर्वस्यां न्यग्रोधं, दक्षिणस्यामौदुम्बर, पश्चिमायामाश्वत्थं, उत्तरस्यां प्लक्ष, विनिवेश्य विदिक्ष
Jain Education Int
a l
For Private & Personal use only
jainelibrary.org
I