________________
||१७||
प्रशस्तद्रमजातानि च निवेशयेत् । शङ्खान कलशांश्च मूर्तिमतो गोरोचनारचितस्वस्तिकाष्टकार्चितकण्ठान सर्वरत्नैः सर्ववीजैः सर्वोषधिगन्धैरद्भिश्च पूरितान् वस्त्रस्रगदामकण्ठान् चन्दनोपलेपितान शतकृत्वोऽ(वा)भिमन्त्रितान् पीठिकाया बहिर्दिक्षु विदिक्षु च स्थापयेत् ।।
तत्रायत आनन्दः । नात्यायतः सुनन्दः। महाकुक्षिनन्दी । सुनाभिनन्दिवर्धनः । ह्रस्वनाभिः श्रीमुखः । नाभिमण्डली विजयः । सुनिर्घोषस्तारः। उच्चस्वनः सुतारश्चेति । कलशाश्व-मन्थरसुभद्रः । किश्चिदुन्नतो विभद्रः। पृथुलोष्ठः सुदन्तः । हस्बोष्ठः पुष्पदन्तः । मन्थरग्रीवो जयः । शोभनग्रीवो विजयः। इति मण्डलस्योत्त(स्यांतोरे दुःस्वरं सदशाहतसितवस्त्रच्छन्नं भद्रासनं विन्यस्य तस्मिन् शिष्यं शहतूर्यवीणावेणुस्वस्तिपुण्याहमङ्गलध्वनिभिः कृतमङ्गलं पर्वद्वाराभिमुखं समुपवेश्य जातचीजशरावैश्चित्रमुखैगुणैरञ्जलिकारकै गैरभिन्नपुटकोकाभिनिमृश्य बल्मीकान-पर्वताग्रनदीतीर-महानदीसंगम-कुशविल्वमूल-चतुष्पथ-दन्तिदन्त-गोशृङ्ग-एकवृक्षगृहीताभिमृद्भिः प्रथम, तदनु पञ्चामृतेन, तनो वासचन्दनपश्चपल्लवकषायैः सर्वगन्धैश्च संस्नाप्य प्रदक्षिणोपनीतैः पूर्वविन्यस्तम्भराचार्यमन्त्रमनुस्मरनभिषिञ्चेत् ।
ततः स्नानवस्त्रं परित्यज्य शुक्ले वाससी परिधाय्याखण्डतण्डलैः स्नापयेत । तैश्च प्रवृद्धः प्रवृद्धा समैः समा हीनश्च हीनःमुन्नाति जानीयात् ।।
तरनु मूलमण्डपवेदिकायां पञ्चवर्णेन रजसा रत्नकाञ्चनरजतमयप्राकारत्रयोपेतं गोपुर-चतुष्कालङ्कृतं तोरणध्वज-पुष्करिणीपुष्प-प्राकारोपशोभित समवसरणमालिख्य मध्ये च पद्मरागादिभिर्निर्मिते मृगाधिपासने चतुर्मुखमष्ट
॥१७॥
Jain Education
@bal
For Private & Personal Use Only
w.jainelibrary.org