________________
निर्वाणकलिका.
॥१२॥
Jain Education Inte
||२॥ अथ दीक्षाविधिः ॥
तत्राचार्यः कृतावश्यको देववन्दनादिकं कर्म कृत्वा पूजागृहमुपविश्य आत्मनो रक्षां विधाय भगवन्तं सम्पूज्य क्षेत्रपालानां बलिं दवा निर्वर्तितशान्तिकर्मविधिः मण्डपाद्बहिर्मण्डल के शिष्यं समुपवेश्य दन्तधावनं मुख( प ) वासं च दद्यात् । दन्तधावनविधिः प्रातः प्रागुदगीशानपश्चिमेषु शस्तः अन्यत्र कृते शान्तिकर्म कुर्यात् । ततो रात्रावधिवासनामन्त्रेण त्रिपञ्चसप्तवारान् अधिवास्य शुद्धायां भूमौ दर्भशयने अस्त्रशतालम्भे प्राचीने मस्तके हन्मन्त्रेण शिष्यं समारोप्य शिखया बद्धशिखं विधाय धर्मजप्तवाससा प्रच्छाद्य शाययेत् । शयनीयस्य बहिर्भस्मसर्प व शिरोस्त्राभिमन्त्रितैस्तिस्रो रेखाः कृत्वा भूतबलि दवा स्वयमप्युपोषितो भूत्वा दीक्षितैः सह शयीत । ततः प्रातरुत्थाय समाप्तनित्य कर्मविधिः शिष्यानाहूय स्वप्नदर्शनं पृष्ट्वा अशुमे शान्तिकर्म कृत्वा शुभे तु विशे षपूजापुरःसरं मण्डलेषु मन्त्रान् सम्पूजयेत् ।
तत्र मण्डलानि सर्वतोभद्रादीनि । तत्र सर्वतोभद्रस्य मुख्यत्वात्तदेवोच्यते । तस्मिन् चतुरस्र क्षेत्रं साधयेत् । शुद्ध दर्पणोदराकृतिं भुवं निष्पाद्य पुष्यपौष्णमघावेधान् मण्डलस्थशङ्कुच्छ. याप्रवेशनिर्गमाभ्यां वा पूर्वापरे संसाध्य पूर्वापरायतं सूत्रमास्काल्य ब्रह्मस्थानं सङ्कल्प्य तस्मात्पूर्वापरगतं समान्तरमङ्कद्वयं दत्वा तत्समं सूत्रं पूर्वयोरङ्कयो वा दक्षिणोत्तरमत्स्यद्वयं सम्पाद्य मत्स्योदरे दक्षिणोत्तरायतं सूत्रं प्रसार्य ततः क्षेत्रार्थमानेन मध्यादिष्टाङ्कं विधाय तदङ्कमसूत्रेण विदिक्षु त्वनुलोमविलोमतो मत्स्यचतुष्कं दत्त्वा तेषु सूत्रचतुष्टयदानात् चतुरस्र संसाध्य ततो मण्डलं विदध्यात् ।
For Private & Personal Use Only
दीक्षाविधि.
॥१२॥
jainelibrary.org