SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ तत्र चतुरस्रमष्टधा विभज्य चतुःषष्टिपदं कृत्वा मध्यकोष्ठकचतुष्टये पद्म सम्पाझ तदनु पङ्क्तौ पद्मार्धन वीथीवदनन्तरं पक्षयोश्चतुर्दिक्षु पद्मासनानि चत्वारि द्वाराणि द्वारार्धमानात् कण्ठोपकण्ठं कपोलोपकपोलौ कुर्यात् । एवं विभज्य ब्रह्मस्थानात् सूत्रभ्रमेण व्यङ्गुलानि चत्वारि वृत्तानि कृत्वा दिक्षु विदिक्षु तत्सन्धिषु सन्ध्यन्तरेषु च द्वात्रिंशत्सूत्राणि दत्वा तृतीयवृत्ते सन्ध्यन्तरसूत्राद्वहिः पार्श्वभ्रमणात् षोडशाधं चन्द्रं कृत्वा दिक्ष विदिक्ष अर्धचन्द्रद्वयं मध्ये चतुर्थवृत्ते दलाग्राणि तृतीयवृत्ते दलसन्धीन् द्वितीयवृत्ते केसराग्राणि प्रथमवृत्ते तवृत्तप्रमाणां पीतां कर्णिको तन्मध्ये नीलवर्णानि नव बीजानि मूलमध्याग्रेषु शुक्लरक्तपोतं केसरजालं दलानि प्रवारण या सह शुक्लवर्णानीति पद्म निष्पादयेत् । तत्रोत्पन्नतहला मुक्तिकामस्य प्राञ्जलं मुक्तिकामस्य स्मरादियोगे तीक्ष्णाग्रम् । दिक्पालाना मंथराग्रं सरस्वत्यम्बिकादीनां अश्वत्थपत्रबद्दलं विधेयं कर्णिकार्धसमम् । बहिःपीठे नीलसन्धानकीलकोपेतं श्वेतपीतरक्तकृष्णपादकं विचित्रगात्र विधाय तद्वहिर्वीथीसूत्रीन द्वारार्धन द्वारकण्ठान्तं ततो दक्षिणोत्तरनिःसृतं तावदेवोपकण्ठं तवं तावदेव कपोलं तस्माद्दक्षिणोत्तरमन्तःसम्मुखं तावदेवोपकपोलं तद्विहः शुक्लरक्तकृष्णरेखात्रयं सत्वरजस्तमोरूपं कृत्वा एताश्च रेखा: प्रथमा अगुलप्रमाणाः अन्ये तु यवोने यवान्तराश्च पर्वा मुक्तिकामस्य भुक्तिकामस्य च समाः कार्याः । द्वारकण्ठोपकण्ठकपोलोपकपोलरेखां संरक्ष्य प्रतिकोणं शेषरेखाः परिलोपयेत् । सर्वतोभद्रसर्वमण्डलेषु पद्मद्वाराण्यनेनैव मार्गेण स्युरिति । शालिपिष्टेन श्वेतं तदेव हरिद्रान्वितं पीतं सिन्दुरधात्विष्टकादिना रक्तं दग्धजवादिना K ॥१३॥ Jain Education intonal For Private & Personal Use Only TALjainelibrary.org
SR No.600015
Book TitleNirvankalika
Original Sutra AuthorPadliptsuri
AuthorJinendravijay Gani
PublisherBhuvan Sudarshan Jain Granth Mala Devali Rajasthan
Publication Year1981
Total Pages104
LanguageSanskrit
ClassificationManuscript, Literature, & Art
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy