SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ निर्वाण कलिका. ॥ ८ ॥ Jain Education Inter ॐ अङ्गाराय नमः याम्यदले । ॐबुधाय नमः उत्तरदले । ॐ बृहस्पतये नमः ईशानदले । ॐ शुक्राय नमः आग्नेयदले । ॐशनैश्चराय नमः पश्चिमदले । ॐ राहवे नमः नैर्ऋतदले । ॐ केतवे नमः पुनः पूर्वेदले इत्यनेन विधिना दूर्वादध्यचतादिभिर्ग्रहनवकं संपूज्य । ॐक्षं क्षेत्रपालाय नमः । ॐक्षां क्षेत्राधिदेवतायै नमः । इति मण्डलस्य बाह्यकक्षायां दक्षिणवामभागयोरर्चयेत् । ततो मायाबीजेन त्रिधा मण्डलमावेष्ट्याङ्कुशेन निरोधयेत् । ततः पार्थिवमण्डलवारुणमण्डलवायुमण्डलत्रयं दत्रा गन्धपुष्पाक्षतादिभिः सम्पूज्य धूपभाजनमस्त्रेण संप्रोच्य वर्मणावगुण्ठ्य हृदयेनाभ्यर्च्यामृतमुद्रया प्रबोध्य घण्टामस्त्रेण सम्पूज्य वादयन् स्वाहान्तेन हृदा धूपनैवेद्यताम्बूलादिकं दवा दुर्वाक्षतश्वेतसर्षपान् देवस्य शिरसि समारोप्यारात्रिकमुत्तार्य मङ्गलप्रदीपं दत्त्वा यथाशक्ति जपं कुर्यात् ॥ . स च त्रिविधो मानसोपशु-भाष्यभेदात् । तत्र मानसो मनोमात्रवृत्तिनिवृत्तः स्वसंवेद्यः । उपांशुस्तु परैरश्रयमाणोऽन्तः संजल्परूपः । यस्तु परैः श्रूयते स भाष्यः । अयं यथाक्रममुत्तममध्यमाधमसिद्धिषु शान्तिपुष्टर्याभचारादिरूपासु नियोज्यः । मानसस्य यत्नसाध्यत्वाद्भाष्यस्याधमसिद्धिफलत्वादुपांशुः साधारणत्वात्प्रयोज्यः । त्रिविधोऽपि न द्रुतो न विलम्वितो नास्पष्टाक्षरो नान्यमनसा कर्तव्यः । नित्यनैमित्तिकेषु प्राङ्मुखेनोदङ्मुखेनैकचित्तेन कार्यः । काम्येषु कामानुसारेणाभिचारादावन्य मुखेनापि विधेयः । नित्यकर्मणि चाष्टशतं तदर्धं पादं वा जपेत् । तत्रैकतमं यथाशक्ति जपं विधाय कुशपुष्पचन्दनाक्षतमिश्रेण गन्धोदकचुलुकत्रयेण शान्तये त्रिभिः इलोकैर्ममास्तु फलसाधकमिति निवेदयन् For Private & Personal Use Only नित्यकर्म विधि. 11 = 11 ainelibrary.org
SR No.600015
Book TitleNirvankalika
Original Sutra AuthorPadliptsuri
AuthorJinendravijay Gani
PublisherBhuvan Sudarshan Jain Granth Mala Devali Rajasthan
Publication Year1981
Total Pages104
LanguageSanskrit
ClassificationManuscript, Literature, & Art
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy