SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ ॥ ६ ॥ Jain Education Inter गुह्यानिगुह्यगोता त्वं गृहाणास्मस्कृतं जपम् । सिद्धिर्भवति मे येन त्वत्प्रसादात्त्वथि स्थिते ॥१॥ I कुर्महे देव सदा सुकृतदुष्कृतम् । तन्मे निजपदस्थस्य हुंक्षः क्षपय त्वं जिन ॥ २ ॥ जिनो दाता जिनो भोक्ता जिनः सर्वमिदं जगत् । जिना जयति सर्वत्र यो जिनः सोऽहमेव च ॥ ३ ॥ इत्येवं जपं पूजामात्मानं च भक्त्या देवाय विनिवेद्य विचित्रस्तुतिभिः स्तुत्वा नमस्कारमुद्रया नमस्कारं विदध्यात् । aal हृत्कमलकर्णिका तेजोमयं ज्ञानशक्तिसमन्वितं शान्तं विचिन्त्य मनो वायुतत्त्वं चैकीकृत्य ( विभागेन विभाव्यम् । तत् ज्ञानशक्त्या हृद्गलतालुब्रह्मरन्ध्राणि संशोध्य अमध्यं नीत्वा तत्रस्थं चतुमुखमष्टप्रातिहार्योपेतं धर्मार्थकामजनकमणिमादिगुणैश्वर्यप्रवर्तकं जातिजरामरणविनाशकं निरामयमर्हद्भट्टारकं ध्यायेत् । तदनु सूक्ष्मात्सूक्ष्मतरं यावदणुमात्रम् । ततश्चात्मनि विलयं नीत्वा न किञ्चिदपि चिन्तयेत् किन्तु नासाग्रनिहितदृष्टिः किञ्चिद्विवृतास्यो निःप्रकम्पो भृतकुम्भवत्तिष्ठेत् । तथाच । स्थानं तदन्यदेवास्ति गुरुवक्त्रादवाप्यते । यत्र नोत्वा मनो योगी निर्मनस्कत्वमाप्नुयात् ॥१॥ न मनो न च मन्तव्यं ममतां भावयेद्यदा । निर्मनस्केन योगेन भवेद्योगीश्वरस्तदा || २ || तस्यामवस्थायां न शृणोति न पश्यति । न मनः क्षुत्पिपासादिभिरभिभूयते । न व्यालवेतालादयो हिंसन्ति । a asra धनकर्मबन्धनैः । एवमचिरादेव क्षीणप्रायकर्ममलः क्रमेण मोक्षमाप्नुयादित्यनेन विधिना ध्यानं विधायाष्ट For Private & Personal Use Only ॥ ६ ॥ www.jainelibrary.org
SR No.600015
Book TitleNirvankalika
Original Sutra AuthorPadliptsuri
AuthorJinendravijay Gani
PublisherBhuvan Sudarshan Jain Granth Mala Devali Rajasthan
Publication Year1981
Total Pages104
LanguageSanskrit
ClassificationManuscript, Literature, & Art
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy