________________
निर्वाण कलिका.
विधि.
च प्रक्षाल्य गालिताम्भसा हृदयेनार्य प्रत्येकमेकैकं पुष्पं दत्त्वार्धोदकविन्दु च क्षिप्त्वा तैर्देवं स्नापयेत् ।
ततो घृतदुग्धदघिसौंषधिगन्धकुङ्कुमचन्दनादिमिर्जलधृपान्तरितैः सर्वत्राशून्यमस्तकं मूलमन्त्रेण संस्नाप्य शुद्धवाससा निमृज्य पाद्यमादौ दवा शिरसि चापं दद्यात् ॥ छ।
नित्यकर्मततः पुनरासनादारभ्य वस्त्रविलेपनाचलङ्कारशुद्धसुरभिनानापुष्पैः ॐही अर्हद्भ्यो नमः इति सम्पूज्य । ॐहां हृदयाय नमः । ॐ हों शिरसे नमः। ॐह शिखायै नमः। ॐ ह्रौं कवचाय नमः । ॐहः अस्त्राय फडिति मङ्गलपूर्वाणि जिनाङ्गेषु सम्पूज्याग्नेयैशान्यनैऋत्यवायव्येषु हच्छिरःशिखाकवचानि संपूज्य पूर्वदक्षिणपश्चिमोत्तरेषु अस्त्रं पूजयित्वा हृदयादीनां धेनु नेत्रस्य गोवृषामस्त्रस्य त्रासनीमिति प्रदर्श्य । ॐहीं सिद्धेभ्यो नमः प्राच्याम् । ॐह आचार्येभ्यो नमः दक्षिणायाम् । ॐ हौं उपाध्यायेभ्यो नमः वारुण्याम् । ॐ हः सर्वसाधुभ्यो नमः उत्तरायां । ॐ ज्ञानाय नमः ईशान्यां । ॐ दर्शनाय नमः आग्नेय्यां । ॐचारित्राय नमः नैऋत्यां । ॐशचिविद्यायै नमः वायव्यां । ॐहीं सरस्वत्यै नमः दक्षिणभागे। ॐहीं शान्तिदेव्यै नमः वामभागे । इत्यनेन विधिना कर्णिकायां सम्पूज्य प्रणवादिनमोन्तं केसरेषु मातृकागणं प्रपूजयेत् ।
IRI॥६॥ ततः पूर्वादिपत्रेषु जयादिदेवताचतुष्कं पूजयेत् । आग्नेयादिषु जृम्भाचतुष्कं प्रणवादिनमोन्तैः स्वनामभिरभ्यर्च्य पाशाङ्कुशध्वजवरदमुद्राचतुष्टयं जयादीनां प्रदर्शयेत् ।
Jain Education in
I
For Private & Personal Use Only
P
ainelibrary.org