________________
निर्वाण
कलिका.
118 11
वामे । इदक्षिणनेत्रे । ई वामे । उ दक्षिणकर्णे । ऊ वामे । ऋ दक्षिणकपोले ! ॠ वामे । लृ दक्षिणहनुनि । लृ वामे । ए दक्षिणसृकभागे । ऐ वामे । ओ अधोदन्तपङ्क्तौ । औ ऊर्ध्वदन्तपङ्क्तौ । अं चिबुके । अः नासान्तरे । क दक्षिण से । स्व दक्षिणभुजे । ग दक्षिणमणिबन्धे । घ हस्ते । ङ हस्ताङ्गुलिनखेषु । एवं चवर्गं वामबाहौ । ट दक्षिणकटिविभागे । ठ दक्षिणोरुणि । उ दक्षिणजङ्घायां । ढ पादगुल्फे । ण पादाङ्गुलिषु । एवं तवर्गं वामपादविभागेषु । प दक्षिणकुक्षौ । फ वामकुक्षौ । व पृष्ठवंशे । भ नामौ । म हृदये । य स्वचि । र रक्ते । ल मांस । व वसायां । श स्नायुनि । ष अस्थिषु । स शुक्रे । ह प्राणापानयोः । क्ष क्रोधचये । —क वज्रकवचे । वज्रास्त्रे | भृतं दिक्षु विन्यसेदिति ।
यद्वा मातृकाकवचभङ्गन्या तत्र प्रणवादिवीजपञ्चकं पूर्ववदानने विन्यस्यानन्तरमे कोनपञ्चाशत् हृदये कल्पितपदेषु दक्षिणसात् प्रभृत्यादिवर्णमाठकाः प्रदक्षिणगतिना तावद्विन्यसेद्यावन्मध्यपदे शून्यमिति ।
ततो ळ दक्षिणकर्णशकुल्यां । क्ष वामकर्णशष्कुल्यां । क दक्षिण कर्णपाशे । प वामकर्णपाशे न्यसेदित्येवं मन्त्रमयं कवचं कृत्वा । हृदयं हृदि । शिरसि शिरः । शिखायां शिखा । कवचं सर्वगात्रेषु । अस्त्रं प्राच्यादिदित्तु विन्यस्य । भूरसि भूतधात्रि सर्वभूतहिते विचित्रवर्णैरलङ्कृते देवि भूमिशुद्धिं कुरु कुरु स्वाहेति निरीक्षणविधिना स्थानशुद्धिं विधाय । हृदये पूजया । नाभौ होमेन । भ्रमध्ये ध्यानेन । बाह्ययागवदन्तर्यागं कृत्वार्थपात्रमस्त्रेण प्रक्षाल्य बिन्दुध्यानादमृतरूपेणाम्भसा पुष्पदूर्वाक्षतोपेतेन मन्त्रसहितया प्रमृज्य सम्पूज्य च धेनुमुद्रया
Jain Education Intonal
For Private & Personal Use Only
नित्यकर्मविधि.
| ॥ ४ ॥
v.jainelibrary.org