SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ ॥ १००१ ॥ Jain Education Int तथा -- संक्रान्तीः समतिक्रम्य त्रयोदश समीरणः । प्रवहन् वामनासायां रोगोद्वेगादि सूचयेत् ॥ ७८ ॥ वामनासायां त्रयोदश संक्रान्तीर्व्यतिक्रम्य चतुर्दश्यां संक्रान्तौ वहन् वायू रोगोद्वेगादि सूचयति ॥ ७८ ॥ तथा- मार्गशीर्षस्य संक्रान्तिकालादारभ्य मारुतः । वहन् पञ्चाहमाचष्टे वत्सरेऽष्टादशे मृतिम् ॥ ७९ ॥ मार्गशीर्षस्य प्रथमदिवसादारभ्य यदा पञ्चरात्रमेकनाढ्यां वहेत् वायुः तदाऽष्टादशे वर्षे मरणम् ।। ७९ ।। तथा शरत्संक्रान्तिकालाच्च पञ्चाहं मारुतो वहन् । ततः पञ्चदशाब्दानामन्ते मरणमादिशेत् ॥ ८० ॥ अश्वयुक्मथमदिवसादारभ्य पञ्च दिनान्येकनाडयां यदि वायुर्वहेत् तदा पञ्चदशवर्षान्ते मरणम् ॥ ८० ॥ १ तथा नास्ति शां. ॥ २० मेकनाड्या - शां. खं. ॥। ३० नाड्या - शां. खं. ॥ For Private & Personal Use Only 5 10 ॥ १००१ ॥ ww.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy