SearchBrowseAboutContactDonate
Page Preview
Page 607
Loading...
Download File
Download File
Page Text
________________ योगशास्त्र स्वोपन वृत्ती सप्तम परिशिष्टम् ॥१५१०॥ ERBERICCCHREEEEEEEEEEEEEEEEEER एतद् द्वयोरपि ध्येयं ध्यानयोधर्म्य-शुक्लयोः । विशुद्धिस्वामिभेदात्त तयोर्भेदोऽवधार्यताम् ॥ १८० ॥ 'अकारं मरुतापूर्य कुंभित्वा 'रेफ' वहिना । दग्ध्वा स्ववपुषा कर्म स्वतो भस्म विरेच्य च ॥१८३ ॥ 'ह'मन्त्रो नभसि ध्येयः क्षरनमृतमात्मनि । तेनाऽन्यत्तद्विनिर्माय पीयूषमयमुज्ज्वलम् ॥ १८४ ॥ तत्रादौ पिण्डसिद्धयर्थ निर्मलीकरणाय च । मारुतीं तैजसीमाप्यां विदध्याद्धारणां क्रमात् ॥ १८५ ॥ ततः पञ्चनमस्कारैः पञ्चपिण्डाक्षरान्वितैः । पश्चस्थानेषु विन्यस्तैर्विधाय सकलीक्रियाम् ॥ १८६ ॥ पश्चादात्मानमर्हन्तं ध्यायेनिर्दिष्टलक्षणम् । सिद्धं वा ध्वस्तकर्माणममूर्त ज्ञानभास्वरम् ॥ १८७ ॥ नन्वनहन्तमात्मानमर्हन्तं ध्यायतां सताम् । अतस्मिंस्तद्ग्रहो प्रान्तिर्भवतां भवतीति चेत् ॥ १८८ ॥ तन्न चोद्यं यतोऽस्माभिर्भावार्हन्नयमर्पितः । स चाहद्धधाननिष्ठामा ततस्तत्रैव तद्ग्रहः ॥ १८९ ॥ परिणमते येनात्मा भावेन स तेन तन्मयो भवति । अहंद्धयानाविष्टो भावाह:(ईन् ) स्यात्स्वयं तस्मात् ॥ १९० ॥ येन भावेन यद्रुपं ध्यायत्यात्मानमात्मवित् । तेन तन्मयतां याति सोपाधिः स्फटिको यथा ॥ १९१ ।। अथवा भाविनो भूताः स्वपर्यायास्तदात्मकाः। आसते द्रव्यरूपेण सर्वद्रव्येषु सर्वदा ॥ १९२ ।। ततोऽयमहत्पर्यायो भावी द्रव्यात्मना सदा। भव्येष्वास्ते सतश्चास्य ध्याने को नाम विभ्रमः ।। १९३ ॥ किञ्च, भ्रान्तं यदीदं स्यात् तदा नातः फलोदयः । न हि मिथ्याजलाज्जातु विच्छित्तिर्जायते तृषः ॥ १९४ ।। प्रादुर्भवन्ति चामुष्मात् फलानि ध्यानवर्तिनाम् । धारणावशतः शान्तक्रूररूपाण्यनेकधा ॥ १९५ ॥ गुरूपदेशमासाद्य ध्यायमानः समाहितः । अनन्तशक्तिरात्माऽयं मुक्ति भुक्तिं च यच्छति ॥ १९६ ॥ BEHCHEHCHCHECHACHCHCHCHEMICROCHOTEHRHEHREE Jain Education Inte For Private & Personal use only 10 w.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy