SearchBrowseAboutContactDonate
Page Preview
Page 606
Loading...
Download File
Download File
Page Text
________________ ॥१५०९॥ धातपिण्डे स्थितश्चैवं ध्येयोऽर्थों ध्यायते यतः । ध्येयं पिण्डस्थमित्याहुरत एव च केवलम् ॥ १३४ ॥ यदा ध्यानबलाद्धपाता शून्यीकृत्य स्वविग्रहम् | ध्येयस्वरूपाविष्टत्वात् तादृक् संपद्यते स्वयम् ॥ १३५॥ तदा तथाविधध्यानसंवित्तिध्वस्तकल्पनः । स एव परमात्मा स्याद् बैनतेयश्च मन्मथः ॥ १३६ ॥ सोऽयं समरसीभावस्तदेकीकरणं स्मृतम् । एतदेव समाधिः स्याल्लोकद्वयफलप्रदः ॥ १३७ ॥ किमत्र बहुनोक्तेन ज्ञात्वा श्रद्धाय तत्त्वतः। ध्येयं सतस्तमप्येतन्माध्यस्थ्यं तत्र बिभ्रता ॥ १३८ ॥ माध्यस्थ्यं समतोपेक्षा वैराग्यं साम्यमस्पहा । वैतृष्ण्यं परमा शान्तिरित्येकोऽर्थोऽभिधियते ॥ १३९ ॥ संक्षेपेण यदत्रोक्तं विस्तारात् परमागमे । तत्सर्व ध्यानमेव स्याद्धयातेषु परमेष्ठिषु ॥ १४०॥ व्यवहारनयादेवं ध्यानमुक्तं पराश्रयम् । निश्चयादधुना स्वात्मालम्बनं तन्निरूप्यते ॥ १४१ ॥ अवता ध्यानशब्दार्थ यदहस्यमवादिषम् । तथापि स्पष्टमाख्यातुं पुनरप्यभिधीयते ॥ १४२ ॥ दिध्यासुः स्वं परं ज्ञात्वा श्रद्धाय च यथास्थितम् । बिहायान्यदनर्थित्वात् स्वमेवावैतु पश्यतु ॥ १४३ ॥ पूर्व श्रुतेन संस्कार स्वात्मन्यारोपयेत्ततः । तत्रैकाग्र्यं समासाद्य न किश्चिदपि चिन्तयेत् ॥ १४४ ॥ यस्तु नालम्बते श्रौती भावनां कल्पनाभयात् । सोऽवश्यं मुह्यति स्वस्मिन् बहिश्चिन्तां बिभर्ति च ॥ १४५॥ तस्मान्मोहप्रहाणाय बहिश्चिन्तानिवृत्तये । स्वात्मानं भावयेत् पूर्वमैकाम्यस्य च सिद्धये ॥ १४६ ॥ पश्यन्नात्मानमैकाग्र्यात् क्षपयत्यर्जितान्मलान् । निरस्ताह-ममीभावः संवृणोत्यप्यनागतान् ॥ १७८ ॥ यथा यथा समाध्याता लप्स्यते स्वात्मनि स्थितिम् । समाधिप्रत्ययाश्चास्य स्फुटिष्यन्ति तथा तथा ॥ १७९ ॥ MERHERCHCHEHEHEREHEREHEHERCHCHCHEICHEMORCHEMICCre ॥१५०९॥ Jain Education Inte Private & Personal us क w.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy