________________
॥१५०७॥
HOMETREETIRECTRETCHEHREMEHRTCHEHRECRUSHESHere
नाम च स्थापनं द्रव्यं भावश्चेति चतुर्विधम् । समस्तं व्यस्तमप्येतद् ध्येयमध्यात्मवेदिभिः ॥ ९९ ॥ वाच्यस्य वाचकं नाम प्रतिमा स्थापना मता। गुणपर्ययवद् द्रव्यं भावः स्याद् गुणपर्ययौ ।। १०० ।। आदौ मध्येऽवसाने यद्वाङ्मयं व्याप्य तिष्ठति । हृदि ज्योतिष्मदुद्गच्छन्नाम ध्येयं तदर्हताम् ॥ ११ ॥ हृत्पङ्कजे चतुःपत्रे ज्योतिष्मन्ति प्रदक्षिणम् । अ-सि-आ-उ-साक्षराणि ध्येयानि परमेष्ठिनाम् ।। १०२ ।। ध्यायेद् 'अ-इ-उ-ए-ओ'च तद्वन्मन्त्रानुदर्चिषः । मत्यादिज्ञाननामानि मत्यादिज्ञानसिद्धये ॥ १०३ ॥ सप्ताक्षरं महामन्त्रं मुखरन्धेषु सप्तसु । गुरूपदेशतो ध्यायेदिच्छन् दूरश्रवादिकम् ॥ १०४ ॥ हृदयेऽष्टदलं पद्मं वर्गः पूरितमष्टभिः । दलेषु कर्णिकायाश्च नाम्नाऽधिष्ठितमहताम् ॥ १०५॥ गणभृद्लयोपेतं त्रिःपरीतं च मायया । क्षोणीमण्डलमध्यस्थं ध्यायेदभ्यर्चयेच्च तत् ॥ १०६ ॥ अकारादि-हकारान्ताः मन्त्राः परमशक्तयः । स्वमण्डलगता ध्येया लोकद्वयफलप्रदाः ॥ १०७ ॥ इत्यादीन्मन्त्रिणो मन्त्रानहन्मन्त्रपुरस्सरान् । ध्यायन्ति यदिह स्पष्टं नाम ध्येयमवेहि तत् ॥ १०८ ॥ जिनेन्द्रप्रतिबिम्बानि कृत्रिमाण्यकृतानि च । यथोक्तान्यागमे तानि तथा ध्यायेदशङ्कितम् ॥ १०९॥ यथैकमेकदा द्रव्यमुत्पित्सु स्थास्नु नश्वरम् । तथैव सर्वदा सर्वमिति तत्त्वं विचिन्तयेत् ॥ ११०॥ चेतनोऽचेतनो वार्थों यो यथैव व्यवस्थितः । तथैव तस्य यो भावो याथात्म्यं तत्त्वमुच्यते ॥ १११ ॥ पुरुषः पुद्गलः कालो धर्माधर्मों तथाम्बरम् । षड्विधं द्रव्यमाम्नातं तत्र ध्येयतमः पुमान् ॥ ११७ ॥ सति हि ज्ञातरि ज्ञेयं ध्येयतां प्रतिपद्यते । ततो ज्ञानस्वरूपोऽयमात्मा ध्येयतमः स्मृतः ॥ ११८ ॥
REETEHEHEHEHEHETEHCHETEHEHEICHEHETHEHCHCHCHCHEHEHCHE
॥१५०७॥
Jain Education Intel
For Private & Personal use only
SElw.jainelibrary.org