SearchBrowseAboutContactDonate
Page Preview
Page 443
Loading...
Download File
Download File
Page Text
________________ षष्ठं परिशिष्टम् ।। १३४६ ॥ Jain Education deeeeeeeeeeeee eeeeeet अथ प्रथममणुव्रतमाह पङ्गु-कुष्ठि-कुणित्वादि दृष्ट्वा हिंसाफलं सुधीः । निरागस्त्रसजन्तूनां हिंसां संकल्पतस्त्यजेत् ॥ १९ ॥ पङ्गु० । पङ्गुवं पादहीनत्वम्, कुष्ठित्वम् कुष्ठरोगित्वम्, कुणित्वं पाणिहीनत्यम् | आदिशब्दात् कुरूपदौर्भाग्यादि । हिंसा फ दृष्ट्वा सुधीः निरागोनिरपराधत्रसजन्तूनां हिंसां संकल्पतो ज्ञास्वा त्यजेत् ॥ १९ ॥ आत्मवत् सर्वभूतेषु सुखदुःखे प्रियाप्रिये । lonal चिन्तयन्नात्मनोऽनिष्टां हिंसामन्यस्य नाचरेत् ॥ २० ॥ आत्म० । सर्वभूतेषु सुखदुःखे प्रियाप्रिये आत्मवत् चिन्तयन् आत्मनोऽनिष्टां हिंसां नाचरेद् बुधः ॥ २० ॥ निरर्थिकां न कुर्वीत जीवेषु स्थावरेष्वपि । हिंसा महिंसा धर्मज्ञः काङ्क्षन् मोक्षमुपासकः ॥ २१ ॥ निर० । स्थावरेष्वपि पृथ्वीकायादिषु जीवेषु । निरर्थिकां शरीर कुटुंबादिप्रयोजनरहितां हिंसाम् उपासको न कुर्वीत अहिंसालक्षणधर्मज्ञाता मोक्षं काङ्क्षन् वाञ्छञ्च ॥ २१ ॥ प्राणी प्राणितलोभेन यो राज्यमपि मुञ्चति । तद्वधोत्थमघं सर्वोवदानेऽपि न शाम्यति ।। २२ ॥ For Private & Personal Use Only अवचूर्णि सहिते योगशास्त्र स्याद्य प्रकाश चतुष्टये. द्वितीयः प्रकाशः ।। १३४६ ।। 10 www.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy