________________
षष्ठं परिशिष्टम्
॥ १३२८ ॥
अनादानमदत्तस्यास्तेयव्रतमुदीरितम् ।
बाह्याः प्राणा नृणामऽर्थों हरता तं हता हि ते ॥ २२ ॥ अना० । यददत्तस्यानादानमग्रहणं तदस्तेयव्रतमुदीरितम् प्रोक्तम् । अदत्तं चतुर्धा-स्वाम्यदत्तं तृणकाष्ठादि १, जीवादत्तं दीक्षाभिप्रायरहितोऽपि पुत्रो मातृपितृभ्यां गुरुभ्यो दीयते २, तीर्थकरादत्तम् आधाकर्मादि ३, गुरुअदत्तं गुर्वादशं विना यद् गृह्यते ४ । यतो नृणां बाह्याः प्राणा अर्थ एव । अतस्तं हरता पुरुषेण ते प्राणा एव हता ज्ञेयाः ॥ २२ ॥
दिव्यौदारिककामानां कृतानुमतिकारितैः ।
मनोवाकायतस्त्यागो ब्रह्माष्टादशधा मतम् ॥ २३ ॥ दिव्यौ। दिव्या वैक्रियदेहभवा औदारिकास्तिर्यगनरदेहभवा ये कामा भोगास्तेषां कृतेन करणेन अनुमत्या कारितश्च मनसा वाचा कायेन च यस्त्यागस्तत् ब्रह्मचर्यम् अष्टादशधा मतम् ॥ २३ ॥
सर्वभावेषु मूर्छायास्त्यागः स्यादपरिग्रहः ।
यदसत्स्वपि जायते मच्छर्या चित्तविप्लवः ॥२४॥ सर्व० । सर्वपदार्थेषु मूर्छाया लोभस्य यस्त्यागः सः अपरिग्रहः स्यात् । यतोऽसत्स्वपि भावेषु जीवस्य मूर्च्छया चित्तविप्लवश्चित्तास्वास्थ्येन प्रशमसुखविपर्यासो भवेत् ॥ २४ ॥
1 तुला-“वित्तमेव मतं सूत्रे प्राणा बाह्याः शरीरिणाम् । तस्यापहारमात्रेण स्युस्ते प्रागेव घातिताः ॥ ५७५॥" इति ज्ञानार्णवे॥
अवचूर्णि सहिते योगशास्त्रस्यादप्रकाश चतुष्टये प्रथमः प्रकाशा
HEREHEHEREHCHERSHIBHEICHERDICHECHECHEHREETHEICH
TECHERNETELETEHCHECHECHEHEHEREHEHRIMERICHEHREECHERE
॥ १३२८॥
Jain Education
onal
For Private & Personal Use Only
75 www.jainelibrary.org