________________
स्वोपशवृत्तिविभूषितं योगशास्त्रम्
अष्टमः प्रकाशः श्लोकः ६६
॥११२०॥
तथा--
अष्टपत्रेऽम्बुजे ध्यायेदात्मानं दीप्रतेजसम् ।
प्रणवाद्यस्य मन्त्रस्य वर्णान पत्रेषु च क्रमात् ॥ ६६ ॥ १ तुला-" शाम्यन्ति जन्तवः क्रूरास्तथान्ये व्यन्तरादयः। ध्यानविध्वंसकर्तारो येन तद्धि प्रपञ्च्यते ॥ २००८ ॥ ६६ दिग्दलाष्टकसपूर्ण राजीवे सुप्रतिष्ठितम्। स्मरत्यात्मानमत्यन्तस्फुरद्ग्रीष्मार्कभास्वरम् ॥ २००९ ॥
प्रणवाद्यस्य मन्त्रस्य पूर्वाद्येषु प्रदक्षिणम्। विचिन्तयति पत्रेषु वर्णैकैकमनुक्रमात् ॥ २०१०॥ ॐ णमो अरहंताणं । ६७ अधिकृत्य च्छदं पूर्व पूर्वाशासंमुखः परम् । स्मरत्यष्टाक्षरं मन्त्रं सहस्रक शताधिकम् ॥ २०११ ॥ ६८ प्रत्यहं प्रतिपत्रेषु महेन्द्राशाद्यनुक्रमात् । अष्टरात्रं जपेद् योगी प्रसन्नामलमानसः॥ २०१२ ॥ ७० अस्याचिन्त्यप्रभावेण कराशयकलङ्किताः। त्यजन्ति जन्तयो दप सिंहवस्ता इव द्विपाः ॥ २०१३ ॥ ६९ अष्टरात्रे व्यतिक्रान्ते कमलस्यास्य वर्तिनः। निरूपयति पत्रेषु वर्णानेताननुक्रमात् ॥ २०१४ ॥
आलम्ब्य प्रक्रियामेतां पूर्व विघ्नोपशान्तये। पश्चात् सप्ताक्षरं मन्त्रं ध्यायेत् प्रणववर्जितम् ।। २०१५ ॥ । मन्त्रः प्रणवपूर्वोऽयं निःशेषाभीष्टसिद्धिदः। ऐहिकानेककर्मार्थ मुत्तयर्थ प्रणवच्युतः ।। २०१६॥ णमो अरहंताणं।"
इति ज्ञानार्णवे ॥ २ इतः परम् 'ॐ नमो अरहताणं ।' इत्यधिकः पाठो हे. मध्ये वर्तते ॥ 1 भासुरं M N L F X| 2 पूर्वादिषु P विना ॥ 3 प्रतिपत्रं च M॥ 4 वर्णकैकमनुक्रमात् M N || 5 तस्या P विना ।। 6 दृश्यतां पृ० ११२३ टि०१॥ 7 प्रक्रियामेनां PN विना ।। 8 विघ्नोप J॥ 9 'कामार्थ MLS F X YR I धर्माथ T J||
विविधप्रकारैः पदस्थ
वर्णनम्
Jain Education
Bonal
For Private & Personal Use Only
www.jainelibrary.org