________________
स्वोपज्ञ
षष्ठः प्रकाश श्लोकः ७-८
वृत्ति
विभूषितं योगशास्त्रम्
॥१०७६
॥१०७६॥
5
HOMEHRISHCHEMICHCHEMIRMEREMEHEMEHEREHEHEHCHEMERGREER
इन्द्रियैः सह मनो बाह्यविषयेभ्य आकृष्येत्यनेन प्रत्याहारकथनम् । यदुक्तमस्माभिरभिधानचिन्तामणौ-- “प्रत्याहारस्त्विन्द्रियाणां विषयेभ्यः समाहृतिः”। [ अभिधानचि० श्लो० ८३ ]
मनः कुर्वीत निश्चलमिति प्रत्याहारानन्तरोपदिष्टाया धारणाया उपक्रमः ॥ ६॥ धारणास्थानान्येवाह
नाभी-हृदय-नासाग्र-भाल-भू-तालु-दृष्टयः।
मुखं कर्णौ शिरथेति ध्यानस्थानान्यकीर्तयन् ॥ ७॥ ध्यानस्थानानीति ध्याननिमित्तस्य धारणायाः स्थानानि ॥ ७ ॥ धारणायाः फलमाह
एषामेकत्र कुत्रापि स्थाने स्थापयतो मनः।
उत्पद्यन्ते स्वसंवित्तेर्बहवः प्रत्ययाः किल ॥ ८॥ प्रत्यया वक्ष्यमाणाः । शेषं स्पष्टम् ।
HEREHENSHOTEHSHREERRCHESEARCHCHCHEHOREHENSTEIR
Jain Education in
1942 nal
For Private & Personal Use Only
sww.jainelibrary.org