SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ स्वोपश वृत्ति विभूषितं योगशास्त्रम् ॥ १०४६॥ पञ्चमः प्रकाशः श्लोकौः २१६-२१७ ॥१०४६॥ अन्तस्थं मध्यगतमधिकृतप्राणिनाम यस्य, स चासौ प्रणवश्व तेन गर्भितम् , आग्नेयपुरं, कोणस्थरेफं, ज्वालाशतैराकुलम् , अनुखारसहितैः षडिः स्वरैः अकाराद्यैः पार्श्वतो वृतं, बहिःकोणेषु स्वस्तिकाङ्क, स्वा इत्यक्षरस्य मध्यस्थितं आग्नेयपुरमेव, तथा चतुःपार्श्वस्थो गुरुर्विसर्गान्तो यकारो यस्य तत्तथा, एवंभूतं यन्त्रं वायुपुरेणावृतं कल्पयित्वा पादयोहृदि शीर्षे सन्धिषु च न्यसेत् । यन्त्रं च स्थापनानुसारेण द्रष्टव्यम् । शेषाः स्पष्टाः ॥ २०८-२१५॥ यन्त्रप्रयोगमुपसंहरन् विद्यया कालज्ञानमाह-- इति यन्त्रप्रयोगेण जानीयात् कालनिर्णयम् । यदिवा विद्यया विद्याद्वक्ष्यमाणप्रकारया ॥ २१६ ॥ स्पष्टः ।। २१६॥ विद्यामेव सप्तभिः श्लोकैराह-- प्रथमं न्यस्य चूडायां स्वाशब्दमों च मस्तके । क्षि नेत्रे हृदये पं च नाभ्यब्जे हाक्षरं ततः ॥ २१७ ॥ 'ॐ जूं सः ॐ मृत्युंजयाय ॐ वज्रपाणिने शूलपाणिने हर हर दह दह स्वरूपं दर्शय दर्शय हुं फट् ।' १ शेषशः श्लोकाः स्पष्टाः-मु.॥ २ विन्द्या-मु. शां. ॥ ३ शूलपाणिने-नास्ति खं. संपू. ॥ ४ फट् फट्-मु.॥ विविधाः कालज्ञानोपायाः Jain Education Inter For Private & Personal Use Only aw.jainelibrary.org,
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy