________________
।। १०३३ ॥
Jain Education I
addleeaaeeeeeeeeeeeeeeeeeeeeee
तथा-
न स्वनासां स्वजिह्वां न न ग्रहान्नाऽमला दिशः । नापि सप्तऋषीन् र्हि पश्यति म्रियते तदा ॥ १६७ ॥
स्पष्टः १६७ ॥
तथा-
प्रभाते यदि वा सायं ज्योत्स्नावत्यामथो निशि । प्रवितत्य निजौ बाहू निजच्छायां विलोक्य च ॥ १६८ ॥ शनैरुत्क्षिप्य नेत्रे स्वच्छायां पश्येत्ततोऽम्बरे ।
न शिरो दृश्यते तस्यां यदा स्यान्मरणं तदा ॥ १६९ ॥ नेक्ष्यते वामबाहुश्चेत् पुत्र-दारक्षयस्तदा । यदि दक्षिणबाहुनेक्ष्यते भ्रातृक्षयस्तदा ॥ १७० ॥ अदृष्टे हृदये मृत्युरुदरे च धनक्षयः ।
गुह्ये पितृविनाशस्तु व्याधिरूरुयुगे भवेत् ॥ १७१ ॥
Feeeeeeeeeeeeeeeeeeeeeeeeeeet
10
॥ १०३३ ॥
www.jainelibrary.org