________________
॥१०३१॥
HEMIEREMIEREHEREHERREDICHERRRRRRRRRRRRRHEMICHHEIRTE
न च्छायामात्मनः पश्येदर्पणे सलिलेऽपि वा। अनब्दां विद्युतं पश्येच्छिरोऽकस्मादपि ज्वलेत् ॥ १६० ॥ हंस-काक-मयूराणां पश्येच्च क्वापि संहतिम् । शीतोष्ण-खर-मृद्वादेरपि स्पर्श न वेत्ति च ॥ १६१ ॥ अमीषां लक्ष्मणां मध्याद् यदैकमपि दृश्यते ।
जन्तोर्भवति मासेन तदा मृत्युन संशयः ॥ १६२ ॥ पश्चापि स्पष्टाः ॥ १५८-१६२ ॥
तथा--
शीते हकारे फुत्कारे चोष्णे स्मृतिगतिक्षये ।
अङ्गपञ्चकशैत्ये च स्यादशाहेन पञ्चता ॥ १६३ ॥ व्यात्तमुखस्य वायुना सह हकारस्य निर्गच्छतो यदा शैत्यं भवति, किञ्चिद्विवृतोष्ठद्वयस्यान्तर्वायुना कृतः फुत्कारो * याष्णो भवति, स्मृति-गत्योश्च भ्रंशो भवति, अङ्गपञ्चकशैत्यं च भवति, तदा दशाहेन मृत्युः ॥ १६३ ॥
१ वेत्ति वा-खं. ॥ २ फुकारे-संपूछ । फुकारे-हे. ॥ ३ ०द्वयस्य वायुना-मु.॥ ४ फुकारो-संपू. हे.॥
॥१०३१ ॥
Jain Education
ional
For Private & Personal use only
www.jainelibrary.org