________________
स्त्रोपज्ञवृत्तिविभूषितस्य योगशास्त्र
द्वितीयविभागस्य पुरोवचनम्
स्य
॥६६॥
एतादृशानि कोष्ठकानि रिक्तानि स्थापितानि । पृ० १८१ पं० ३, पृ० ६१४ पं०९ मध्ये उद्धृतस्य पाठद्वयस्य मूलस्थानं बौद्धाचार्यदिङ्नागविरचितस्य प्रमाणसमुच्चयस्य बौद्धाचार्यधर्मकीर्तिविरचितस्य प्रमाणविनिश्चयस्य भोटभाषानुवादं [Tibetan translation ] दृष्ट्रास्माभिनिर्णीतम, यतः सम्प्रतीदं ग्रन्थद्वयं संस्कृतभाषायां नोपलभ्यते, पर शतेभ्यो वर्षेभ्यः पूर्व भोटभाषायां [ Tibetan language मध्ये ] केनचिद विहितोऽनुवाद एवं सम्प्रति लभ्यते ।
विषयानुक्रमे विस्तरेण तृतीय-चतुर्थप्रकाशयोविषयो वर्णितः । ततः संशोधनोपयुक्त ग्रन्थसूच्यां संक्षिनानां संकेतानां विवरणं वर्तते । तदनन्तरं विशिष्टटिप्पणात्मकं वृद्धिपत्रकं वर्तते । अस्य ग्रन्थस्य मुद्रणानन्तरं चतुर्थप्रकाशान्तर्गता बहवः श्लोकाः श्रीहेमचन्द्रसूरिभिः त्रिषष्टिशलाकापुरुषचरिते पृथक पृथक स्थानेषु तीर्थकरदेशनायां संगृहीता इति अस्मदृष्टिपथमायातम् । अतस्तादृशानां श्लोकानां त्रिषष्टिशलाकापुरुषचरितान्तर्गतैः श्लोकैः | तुला अस्मिन् वृद्धिपत्रके प्राधान्येन उपदर्शिता । पृ० ७२१ मध्ये 'अयोगवाहिना' पाठस्य टिप्पणे, पृ० ८१९ मध्ये लेश्याटिप्पणे, पृ० ९३७ मध्ये लोकान्तिकदेवसम्बन्धिनि टिप्पणे तथा अन्यत्र च अन्यदपि किश्चिद् विशिष्टं वलव्यं तदपि एतेषु टिप्पणेषु अस्पाभिः संगृहीतम् । विशेषजिज्ञासुभिरवश्यं पठनीयमिदं वृद्धिपत्रकम् ।
महता परिश्रमेण सूक्ष्मेक्षिकया च सञ्चिताक्षर =अफ ]पत्राणि वयं विलोकयामः, तथापि दृष्टिभ्रमादिना काश्चिदशुद्धय अवशिष्यन्त एव । मुद्रणसमयेऽक्षरविचलनादिनापि काश्चिदशुद्धयो जायन्ते । ईदृशा येऽशुद्ध
Jain Education Interneti
For Private & Personal Use Only
www.jainelibrary.org