________________
सं०-अणहिलपत्तना=पाटण]नगरे श्रीहेमचन्द्राचार्यजनज्ञानमन्दिरे विद्यमाना 'संघवीपाडाभण्डार'सत्का द्वितीयस्वोपज्ञवृत्तिविभ-M प्रतिः । क्रमाकः ७१।२ । पत्रसंख्या १-२०६ । अत्र लेखनवर्षस्य निर्देशो नास्ति, तथापि वैक्रमे चतुर्दशे शतके || विभागस्य षितस्य
प्रतिरियं लिखितेति भाति । अस्यां योगशास्त्रस्य प्रतौ केवलं तृतीयप्रकाशस्यैव वृत्तिवर्तते । सम्पूर्णेयं प्रतिरत्र पुरोवचनम् योगशास्त्र-४ संशोधने उपयुक्ताऽस्माभिः।।
___संपू०-अणहिलपत्तन[ पाटण]नगरे श्रीहेमचन्द्राचार्यजनज्ञानमन्दिरे विद्यमाना 'संघवीपाडाभण्डार'सत्केयं ॥६॥
प्रतिः । अस्याः क्रमाङ्कः ७३ । पत्रसंख्या १-३६५ । चतुर्थप्रकाशस्यान्ते पश्चमप्रकाशस्य प्रारम्भे च कानिचित् । पत्राणि त्रुटितानि सन्ति । विक्रमसंवत् १२७४ वर्षे लिखितेयं प्रतिः। अस्याः प्रतेरुपयोगः पृ० ७०४ त एवास्माभिरस्मिन् ग्रन्थे प्रारब्धः।।
हे०-अणहिलपुरपत्तन[पाटण]नगरे श्रीहेमचन्द्राचार्यज्ञानमन्दिरे विद्यमाना 'संघभण्डार'सत्केयं प्रतिः । अस्याः क्रमाङ्क: ३७ । पत्रसंख्या १-३१९ । विक्रमसंवत १२९४ वर्षे लिखितेयं प्रतिः। अस्याः प्रतेरुपयोगः पृ० ७२६ त एवास्मिन् ग्रन्थेऽस्माभिः प्रारब्धः। अन्यासु कासुचिदपि प्रतिष्वविद्यमानाः विशिष्टाः पाठभेदा अस्यामेकस्यां प्रतौ वर्तन्ते । दृश्यतां पृ० ८७८ टि०२, पृ० ८७९ टि. २, पृ० ८८९ टि०१ । अतोऽतिविशिष्टेयं प्रतिः।
॥६४॥ एतासां पञ्चानां तालपत्रोपरि लिखितानां प्रतीनामत्र ग्रन्थे संशोधने टिप्पणादौ चास्माभिरुपयोगो विहितः।
55ऊर
Jain Education Intem
For Private & Personal Use Only
www.jainelibrary.org