SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ ॥ ६९७ ॥ पारयित्वास, पारयित्वा सिद्धादिस्तुति वदामि जिणे चउव्वीस नाथात्रिकस्य पाठः। तदत तपः WELCHEHREEEEEEEENAMECHEREHCHEENCHEHERE उद्विय करेइ विहिणा उस्सग्गं चिंतए अ उज्जोअं। बीयं दसणसुद्धीए चिंतए तत्थ इममेव ॥ २०॥ १ उत्थाय करोति विधिना उत्सर्ग चिन्तयेच्च उद्द्योतम्। द्वितीयं दर्शनशुद्धः चिन्तयेत् तत्र इममेव ॥२०॥ मिथ्यादुष्कृतं दत्त्वा प्रणिपातदण्डकं शक्रस्तवमभिधाय उत्थाय सामायिकादिसूत्रं भणित्वा चारित्रशुद्धिनिमित्तं कायोत्सर्ग करोति |एकोद्योतकरचिन्तनं कृत्वा पारयित्वा च दर्शनशुद्धिनिमित्तं 'लोगस्सुज्जोयगरं' भणित्वा पुनः कायोत्सर्ग करोति, तत्रापि एकमुद्द्योतकरं चिन्तयति, पारयित्वा झानशुद्धिनिमित्तं पुक्खरवरित्ति भणित्वा पुनः कायोत्सर्ग विधत्ते, तत्र च निशातिचारांश्चि. न्तयति इति कायोत्सर्गत्रितयकरणम् , पारयित्वा सिद्धादिस्तुति पठित्वा उपविश्य 'पुत्तिय' त्ति मुखपोतिका प्रत्युपेक्ष्य वन्दनकमालोचनं च कृत्वा उपविश्य नमस्कारपूर्व सामायिकादि सूत्रं 'वंदामि जिणे चउव्वीसं' इति पर्यन्तं भणित्वा चन्दनकं ददाति, तदनु क्षामणं कुरुते ॥ १७७।। वंदणयमित्यादि, पुनर्वन्दनम् । 'आयरियउवज्झाए' इत्यादिगाथात्रिकस्य पाठः। तदनु पूर्ववत् सामायिकादिसूत्रं भणित्वा पाण्मासिकतपसश्चिन्तनाय कायोत्सर्गः। तत्र च-येन संयमयोगानां हानिः कापि न जायते। तत् तपः प्रतिपद्येऽहमिति भावितमानसः॥१॥ श्रीमहावीरतीर्थेऽस्मिन्नुपवासतपः किल । षण्मासान यावदादिष्टमुत्कृष्टं गणधारिभिः ॥२॥ ततो जीव! शक्तोऽसि त्वं संयमयोगानाबाधया पाण्मासिकं तपः कर्तुम् ? इति विचिन्त्य न शक्नोमीति परिभावयति। एकदिनमहीनान् षण्मासान् शक्नोषि कर्तुम् १ एकोनत्रिंशद् दिनानि पञ्च मासांश्चेत्यर्थः। न शक्नोमीति पूर्ववत् । पुनद्वादिदिनहीनान् । यावदेकोनत्रिंशदिनहीनान् षण्मासानिति। एवं पञ्च मासान् चतुरस्त्रीन् द्वौ च एकादिदिनहीनांश्च चिन्तयेत् , एकं च मासमेकादिदिनहीनं यावत् त्रयोदशदिनहीनम् ततश्चतुस्त्रिंशद् द्वात्रिंशादिकं द्विकद्विकहान्या चिन्तयेत् यावत् चतुर्थम् , तदनु आचाम्लनिर्विकृतिक-पूर्वार्द्ध-एकाशनादि नमस्कारसहितान्तं यावत् कर्तुं शक्नोति तद् मनसि कृत्वा कायोत्सर्ग पारयति। चतुर्विंशतिस्तवं च भणित्वा उपविश्य पुत्तिय त्ति मुखपोतिका प्रत्युपेक्षते । वंदण त्ति ततो वन्दनकं दत्ते। नियम त्ति ततो नियमः-प्रत्याख्यानम् । थुइतिय त्ति ततः स्तुतित्रितयं प्रवर्धमानाक्षरं गृहगोधिकादिसत्वोत्थापनपरिहारायाल्पस्वरेण भणति। चिइवंदण त्ति ततश्चैत्य For Private & Personal use only ॥ श्रीमहाकाय कायोत्सर्गः। वज्झाए' इत्यायिन्तं भणित्या व कितावासतपः किला संयमयोगानों हानिकस्य पाठः । ॥ ६९७॥ Jain Education in anal www.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy