SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ HEREHICHEMEHEMEMOREHICHCHICEIGHBHISHETHERCHEMEHEREHEREHES ___ अत्र हि शिष्यो गुरु वन्दनेन वन्दितुकामः पूर्व लघुवन्दनपुरःसरं सन्देशको प्रमृज्योपविष्ट एव मुखवस्त्रिकां पञ्चविंशतिकृत्वः प्रत्युपेक्षते, तया च शरीरं पञ्चविंशतिकृत्व एव प्रमृज्य परेण विनयेन मनोवाक्कायसंशुद्धो गुरोः सकाशा-| दात्मप्रमाणात् क्षेत्राद् बहिःस्थितोऽधिज्यचापवदवनतकायः करद्वयगृहीतरजोहरणादिर्वन्दनायोद्यत एवमाह-- इच्छामि अभिलषामि, अनेन बलाभियोगः परिहृतः, क्षमाश्रमण ! "क्षमूषि सहने" [धा० पा० ७८८ ], पित्त्वादङि क्षमा, सहनमित्यर्थः, श्राम्यति संसारविषये खिन्नो भवति तपस्यतीति चे, नेन्द्यादित्वात् कर्तरि अने श्रमणः, क्षमाप्रधानः श्रमणः क्षमाश्रमणः, तस्य सम्बोधने प्राकृते 'खमासमणो !' " डो दी? वा"। [सिद्धहेम० ८।३।३८]। इति आमन्त्र्ये सेडोंकारः, क्षमाग्रहणेन मार्दवादयो गुणाः सूचिताः। ततश्च 'क्षमादिगुणोपलक्षितयतिप्रधान !', अनेन वन्दनार्हत्वं तस्यैव । सचितम् । किं कर्तुम् ? वन्दितुं नमस्कर्तुम् , भवन्तमिति गम्यते। कया? यापनीयया नैपेधिक्या, अत्र नैपेधिक्येति विशेष्यम् , यापनीययेति विशेषणम् । 'पिधू गत्याम्' [धा० पा० ३२० ] इत्यस्य निपूर्वस्य पत्रि निषेधः, प्राणातिपातादिनिवृत्तिः, | १ गुरुवन्दनेन-मु.॥ २ श्रवण-खं.॥ ३ हैमे धातुपारायणे तु अत्र “क्षमौषि सहने” इति पाठः। किन्तु 'क्षमौच सहने' [धा० पा० ४।९२, १२३५] इत्यस्य वृत्तौ “ऊदिदयमित्येके क्षान्त्वा क्षमित्वा" इत्यपि हैमधातुपारायणेऽभिहितमिति ध्येयम् । पाणिनीये धातुपाठे तु “क्षमूष सहने" [पा० धा० ४४२] इति पाठः।। ४ “पितोऽङ्”-सि०५।३।१०७॥ का५ वा-मु.। “श्रमूच खेदतपसोः"-धा० पा० १२३३॥ ६ “नन्द्यादिभ्योऽनः”-सि० ५।११५२॥ ७ श्रवणः-खं.॥ ८ मार्दवार्जवादयो-मु.॥ ९ प्रधानः-शां.॥ ॥ ६६३॥ Jain Education Inter For Private & Personal Use Only ww.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy