SearchBrowseAboutContactDonate
Page Preview
Page 478
Loading...
Download File
Download File
Page Text
________________ ॥४०१॥ यं कश्चिदोषमुत्पाद्य धनिभ्यो धनमग्रहीत् । छलं वहति भूपानां हलं नेति नयं वदन् ॥४। सर्वोपायैर्धनं लोकानिष्कृपः स उपाददे । अपामब्धिपोऽर्थानां पात्रं नान्य इति ब्रुवन् । ५॥ तथाऽर्थ सोऽग्रहील्लोकाल्लोकोऽभूनिर्धनो यथा । भूमावर्णायुचीर्णायां न खलु प्राप्यते तृणम् ॥६॥ हिरण्यनाणकाख्याऽपि तेन लोकेषु नाशिता । प्रवृत्तो व्यवहारोऽपि चर्मणो नाणकैस्तदा ॥७॥ पाखण्डिनोऽपि वेश्या अप्यसावर्थमदण्डयत् । हुताशनः सर्वभक्षी न हि किश्चिद्विमुश्चति ॥८॥ श्रीवीरमोक्षादेकोनविशेष्वब्दशतेषु यः। साग्रेषु भावी किं सोऽयं कल्कीति जनवागभूत् ॥९॥ आक्रोशान् पश्यतोऽप्यस्य भूमिभाजनभोजनः । जनो ददौ गतभयो भयं भवति भाजने ॥१०॥ स स्वर्णैः पर्वतांश्चक्रे पूरयामास चावटान् । भाण्डागाराणि चापूरि पूर्णकामस्तु नाभवत् ॥११॥ आकर्ण्य तत्तथाऽयोध्यानाथेनाथ हितैषिणा । तं प्रबोधयितुं वाग्मी दतः प्रेषित आगमत् ॥१२॥ सर्वतोऽप्याहृतश्रीकं निःश्रीकं तं तथापि हि । दृतो भूपमथापश्यन्नत्वा चोपाविशत् पुरः ॥१३॥ सोऽनुज्ञातो नृपेणोचे श्रुत्वा मत्स्वामिवाचिकम् । कोपितव्यं न देवेन न हिताश्चाटुभाषिणः ॥१४॥ अवर्णवादो देवस्य यः परम्परया श्रुतः। स प्रत्यक्षीकृतो ह्यद्य न निर्मला जनश्रुतिः॥१५॥ अन्यायतोऽर्थलेशोऽपि राज्ञः सर्वयशछिदे । अप्येकं तुम्बिकाबीजं गुडभारान् विनाशयेत् ॥१६॥ १ विंशत्यब्द मु.॥ २ अन्यायात्तो खं.॥ ॥४०१॥ ૧૦૧ Jaint Education Inte For Private & Personal Use Only M ww.jainelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy