SearchBrowseAboutContactDonate
Page Preview
Page 477
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञवृत्तिविभूषितं योगशाखम् द्वितीयः प्रकाश: श्लोकः ११२ ॥१०॥ ॥४०॥ दुर्भिक्षकाले धान्येभ्यः प्रत्युपात्तैर्महाधनैः । वभार परितो धान्यैरिवासौ धान्यकोष्ठकान् ॥४॥ पुनः सुभिक्षे धान्यं स क्रीत्वा क्रीत्वा समग्रहीत् । लब्धास्वादः पुमान् यत्र तत्रासक्ति न मुञ्चति ॥५॥ कीटकोटिवघं नेषोऽजीगणत् कणसंग्रहे । पीडां पञ्चेन्द्रियाणामप्यतिभाराधिरोपणात् ॥६॥ नैमित्तः कोऽपि तस्याख्यद् भावि दुर्भिक्षमैषमः । सर्वस्वेनाथ सोऽक्रीणात् कणान् पुनरतृप्तिकः ॥७॥ वृद्धयाऽपि द्रव्यमाकृष्याग्रहीद्धान्यमनेकधा । स्थानाभावे गृहेऽक्षैप्सीत् किं न कुर्वीत लोभवान् ।।८।। असौ जगदमित्रस्य मित्रस्येवोन्मनास्ततः। दुर्मिक्षस्यैष्यतो मार्गमीक्षाञ्चक्रे दिने दिने ॥९॥ अथ वर्षाप्रवेशेऽपि ववर्षोपेत्य सर्वतः । धारासारधनस्तस्य हृदयं दास्यन्निव । १०॥ गोधूम-मुद्ग-कलमाश्चणका मकुष्टा माषास्तिलास्तदपरेऽपि कणा विनश्य । यास्यन्ति संप्रति हहेति स तैरतृप्तो, हृत्स्फोटजातमरणान्नरकं प्रपेदे ॥११॥ [इति तिलकश्रेष्ठिकथानकम् ] प्राच्यां महेन्द्रनगरीप्रतिविम्बमिवोच्चकैः । आख्यया पाटलीपुत्रमित्यस्ति प्रवरं पुरम् ॥१॥ आसीत्तत्रातिसुत्रामा शत्रुवर्गविसूत्रणे । त्रिखण्डवसुधाधीशो नन्दो नाम नरेश्वरः ।।२।। सोऽकराणां करं चक्रे सकराणां महाकरम् । महाकराणामपि च किश्चिच्चक्रे करान्तरम् ॥३॥ १ 'मरणो नरकं क. ग. छ. ॥ Jain Education Inter For Private & Personal Use Only P w.jainelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy