SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञवृत्ति विभूषितं योगशास्त्रम् !२७२ ।। Jain Education Intem श्रुतानुमितयोः श्रुतसम्बन्धस्य बलीयस्त्वाद् गव्येन पयसा पायसेन च संबन्धो न मांसेन प्राकरणिकेन, अन्ये तु व्याख्यानयन्ति - मांसेन गव्येन पयसा पायसेन वा । पयसो विकारः पायसं दध्यादि, पयः संस्कृते त्वोदने प्रसिद्धिः । वार्ध्रीणसो जरच्छागः यस्य पिबतो जलं त्रीणि स्पृशन्ति जिह्वा कर्णौ च । यदाह" त्रिपिवं विन्द्रियक्षीणं श्वेतं वृद्धमजापतिम् । वाणसं तु तं प्राहुर्याज्ञिकाः पितृकर्मसु || " ] ॥४६॥ पितृनिमित्तं हिंसोपदेशकं शास्त्रमनूद्यं तदुपदिष्टां हिंसां दूषयतिइति स्मृत्यनुसारेण पितॄणां तर्पणाय या । मूढेर्विधीयते हिंसा साऽपि दुर्गतिहेतवे ॥४७॥ इति पूर्वोक्ता या स्मृतिर्धर्मसंहिता तस्या अनुसारेणालम्बनेन पितरः पितुर्वश्याः । यच्छूतिः- “ पित्रे पितामहाय प्रपितामहाय पिण्डं निर्वपेत्” [ ] इति । तेषां तर्पणाय तृप्तये मूढैरविचारकैर्या हिंसा विधीयते सापि — न केवलं मांसलोभादिनिमित्ता — दुर्गतिहेतवे नरकाय । न हि स्वल्पाऽपि काचिद्धिंसा न नरकादिनिबन्धनम् । यत्तु पितृतृप्तिप्रपञ्चवर्णनं तन्मुग्धबुद्धिप्रतारणमात्रम्, न हि तिल - व्रीह्यादिभिर्मत्स्य मांसादिभिर्वा परासूनां पितॄणां तृप्तिरुत्पद्यते । ४ पितृनिमित्तहिंसो मु. ॥ ५ प्रबन्धवर्णनं शां. ॥ ३ वा मु. ॥ १ वा मु. ॥ २ यदाहु खं. ॥ For Private & Personal Use Only [ द्वितीय: प्रकाश: श्लोक ४७ ॥२७२॥ 5 10 jainelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy