SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ सवृत्तिके धर्मबिन्दौ प्रथमोऽध्यायः श्री सिद्धाचलमण्डन-ऋषभदेवस्वामिने नमः ।। श्री शङ्केश्वरपार्श्वनाथाय नमः॥ श्री महावीरस्वामिने नमः ॥ श्री गौतमस्वामिने नमः॥ श्री सद्गुरुभ्यो नमः॥ आचार्यप्रवर- याकिनीमहत्तराधर्मसूनु-श्रीहरिभद्रसूरिविरचितं श्रीमुनिचन्द्रसूरिविरचितवृत्तिसमलङ्कृतं धर्मबिन्दुप्रकरणम् । *अत्रादाविदमवधेयम् - सवृत्तिकस्यास्य धर्मबिन्दुप्रकरणस्य संशोधनं ]. J१ K. K१. L. D. इति तालपत्रोपरि लिखितमादर्शषट्कमवलम्ब्य विहितम् । तत्र J. इत्यनेन जेसलमेरग्रन्थभाण्डागारीयसूच्यनुसारेण २२५ इति क्रमाङ्के विद्यमानः १-१५५ पत्रात्मक आदर्शोऽवसेयः । J१ इत्यनेन तु २२४(८) क्रमाङ्के ४३-६४(२२)पत्रेषु विद्यमान आदर्शोऽवसेयः, अत्र मूलमात्र धर्मबिन्दुप्रकरणं वर्तते ।K Kइत्यत: खम्भातनगरे श्रीशान्तिनाथजैनग्रन्थभाण्डागारीयसूच्यनुसारेण २७६ क्रमाङ्के विद्यमानः १-५०, १-२२१ पत्रात्मक आदर्शो ज्ञेयः | L. इत्यनेन तु अहमदाबादनगरे लालभाई-दलपतभाई-भारतीयसंस्कृतिविद्यामन्दिरे २५ तालपत्रीयक्रमाङ्के विद्यमानः १-२७२ पत्रात्मक आदर्शो ज्ञेयः । तत्र K१ मध्ये १-५० पत्रेष मलमात्रं धर्मबिन्दप्रकरणमादौ वर्तते, ततः परं K. मध्ये १-२२१ पत्रेषु वृत्तिसहितं धर्मबिन्दप्रकरणं वर्तते । J. मध्ये १-१५५ पत्रेषु वृत्तिसहितं धर्मबिन्दप्रकरणं वर्तते । L. मध्ये तु प्रथमे पत्रे केवलस्य मूलमात्रस्य धर्मबिन्दुप्रकरणस्य स्वल्पतमोऽशो वर्तते, २-२७२ पत्रेषु आद्यंशरहितं समग्रं धर्मबिन्दुप्रकरणं वृत्तिसहितं वर्तते । किन्तु मूलस्य २६ वृत्तेच १, एवं सर्वाण्यपि अवशिष्टानि तालपत्राणि डभोईमध्ये मुक्ताबाईज्ञानमन्दिरे वर्तन्ते तेषां च D. इति संज्ञा विहिता। तत्र च २-२७ पत्रेषु धर्मबिन्दप्रकरणं मूलमात्रं वर्तते । आगमोदयसमित्या विक्रमसंवत् १९८० तमे वर्षे प्रकाशिता मुद्रिता मु०संज्ञिता सवृत्तिकधर्मबिन्दुप्रतिरपि उपयुक्ता । प्रथमे परिशिष्टे धर्मबिन्दुसूत्रपाठोऽपि पृथगत्र मुद्रितः ॥ Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600011
Book TitleDharmabinduprakaranam
Original Sutra AuthorHaribhadrasuri
AuthorJambuvijay, Dharmachandvijay, Pundrikvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages379
LanguageSanskrit
ClassificationManuscript, Ethics, & Principle
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy