________________
ज्ञानवान् ज्ञानफलसिद्धेः, यदाह – यो निरनुबन्धदोषात्, श्राद्धोऽनाभोगवान् वृजिनभीरुः ॥ गुरुभक्तो ग्रहरहितः, सोऽपि ज्ञातैव तत्फलतः ॥१॥ [षोडशके
सवृत्तिके धर्मबिन्दौ चतुर्थं
१२॥३]
परिशिष्टम्
२५७
__ अथवा यो गुरुकुले वसतां प्रचुरसाधुत्वेन मनागनेषणीयभक्तभोजनसम्भवादिदोषोद्भावनतस्तन्निरपेक्षो भवति तस्यानेन व्यवच्छेद उक्त:, सद्गुरूपदेशानपेक्षो हि शास्त्रे निन्द्यते । यदाह-जे उ तह विवज्जत्था, सम्मं गुरुलाघवं अयाणन्ता ॥ सग्गाहकिरियरया, पवयणखिंसावहा खुद्दा ॥१॥ [पञ्चा० ५३१] इत्यादि, व्यवस्थित इह विशब्देन य: कदाचित् गुर्वाज्ञाव्यवस्थितः कदाचिदन्यथा तस्य व्यवच्छेदः । ननु ये जिनकल्पिक-प्रतिमाकल्पिकादयो गच्छनिर्गतास्तेषां गुर्वाज्ञाविकलानां कथं विवक्षितभिक्षाभाक्त्वमिति, उच्यते, तत्कल्पस्यैव गुर्वाज्ञारूपत्वादिति || तस्येतीह दृश्यम्, ततस्तस्य यते: किंविधस्येत्याह-सदानारम्भिणः सदा सर्वकालं अनारम्भिणः पृथिव्याधुपमर्दपरिहारिणः अनेन पृथिव्यादिषु असंयतस्य
टिप्पणानि व्यवच्छेदः ध्यानादियोगस्यापि तदीयस्य निष्फलत्वात् ॥ आह च - सम्मदिहिस्स वि अविरयस्स न तवो महागुणो होइ । होइ हु हत्थिण्हाणं, तुंदच्छिययं व तं तस्स ॥१॥[ ] तुन्दाकर्षणे हि यावद् भ्रमिकाष्ठं दवरकेण मुच्यते तावदेव बध्यत इति ।
सदाग्रहणेन तु यो विहितसामायिकपौषधतया कदाचिदनारम्भी देशतो यतिस्तस्य व्यवच्छेद उक्तो भिक्षाकत्वेन तस्यागमेऽनभिधानात् । ननु य एकादशी प्रतिमां प्रतिपन्नः श्रमणोपासकस्तस्य प्रतिमाकालावधिकत्वादनारम्भकत्वस्य न तदा तावदाद्या भिक्षा सम्भवति, नापि तदितरभिक्षैतस्य वक्ष्यमाणतत्स्वामिलक्षणायोगादिति कास्य भिक्षेति ?, अत्रोच्यते, तस्य श्रमणभूतत्वाभिधानात् तद्भिक्षाया अपि श्रमणभिक्षाकल्पत्वात्तस्यामवस्थायां तस्या आप्तोपदिष्टत्वाच्च सर्वसम्पत्करीकल्पत्वमवसेयम्, न ह्यसर्वसम्पत्करमतत्कारणं वा विधेयतया वस्त्वाप्ता उपदिशन्ति आप्तत्वहानिप्रसङ्गादिति । इह ध्यानादियुक्त इत्यत्रादिशब्देन सदानारम्भित्वस्यावरोधेऽपि भेदेन तदुपादानं हेतुत्वार्थम्, ततश्च सदानारम्भित्वप्रसङ्गात्, सा चानारम्भित्वादेव 'सर्वसम्पत्करी,' अत एव सातिप्रशस्या, ॥ यदाह- अहो जिणेहिं असावज्जा, वित्ती साहूण देसिया । मोक्खसाहणहेउस्स, साहुदेहस्स धारणा ॥१॥ [दशवैकालिके ५।१।९२] ॥२॥ पुनरपि किम्भूतस्य तस्येत्याहवृद्धाद्यर्थमसङ्गस्य भ्रमरोपमयाऽटतः । गृहिदेहोपकाराय विहितेति शुभाशयात् ॥३॥
२५७ अटतो यते: सर्वसम्पत्करी भिक्षा भवतीति प्रकृतम्, किमर्थमटत इत्याह- वृद्धाद्यर्थम्, वृद्धा वय:-पर्याय-श्रुतस्थविराः, आदिशब्दाद् ।
Jain Education International
For Private & Personal use only
www.jainelibrary.org