________________
सवृत्तिके धर्मबिन्दौ
प्रथमं परिशिष्टम्
१६६
द्रव्यतो भावतश्च ७१ (२०४) । लोकापवादभीरुता ७२ (२०५) । गुरुलाघवापेक्षणम् ७३ (२०६ ) | बहुगुणे प्रवृत्तिः ७४ (२०७ ) । चैत्यादिपूजापुरःसरं भोजनम् ७५ (२०८) । तदन्वेव प्रत्याख्यानक्रिया ७६ ( २०९) । शरीरस्थितौ प्रयत्नः ७७ (२१० ) । तदुत्तरकार्यचिन्ता ७८ (२११) । कुशलभावनायां प्रबन्धः ७९ (२१२) । शिष्टचरितश्रवणम् ८० (२१३) । सान्ध्यविधिपालना ८१ (२१४) । यथोचितं तत्प्रतिपत्तिः ८२ (२१५) । पूजापुरस्सरं चैत्यादिवन्दनम् ८३(२१६) । साधुविश्रामणक्रिया ८४ (२१७) । योगाभ्यासः ८५ (२१८) । नमस्कारादिचिन्तनम् ८६ (२१९ ) । प्रशस्तभावक्रिया ८७ (२२० ) । भवस्थितिप्रेक्षणम् ८८(२२१) । तदनु तन्नैर्गुण्यभावना ८९ (२२२) । अपवर्गालोचनम् ९० (२२३) । श्रामण्यानुरागः ९९ (२२४) । यथोचितं गुणवृद्धिः ९२(२२५) । सत्त्वादिषु मैत्र्यादियोग इति ९३ (२२६) ।
विशेषतो गृहस्थस्य धर्म उक्तो जिनोत्तमैः । एवं सद्भावनासारः परं चारित्रकारणम् ||१६|| पदपदेन मेधावी यथाऽऽरोहति पर्वतम् । सम्यक् तथैव नियमाद्धीरश्चारित्रपर्वतम् ||१७|| स्तोकान् गुणान् समाराध्य बहूनामपि जायते । यस्मादाराधनायोम्यस्तस्मादादावयं मतः ॥ १८॥ इति धर्मबिन्दौ विशेषतो गृहस्थधर्मविधिस्तृतीयोऽध्यायः समाप्तः ॥ ॥ अथ चतुर्थः अध्यायः ॥
एवं विधिसमायुक्तः सेवमानो गृहाश्रमम् । चारित्रमोहनीयेन मुच्यते पापकर्मणा ॥ १९ ॥ सदाज्ञाऽऽराधनायोगाद्भावशुद्धेर्नियोगतः । उपायसंप्रवृत्तेश्च सम्यक्चारित्ररागतः ॥२०॥ विशुद्धं सद्नुष्ठानं स्तोकमप्यर्हतां मतम् । तत्त्वेन तेन च प्रत्याख्यानं ज्ञात्वा सुबह्वपि ॥२१॥
,
इति विशेषतो गृहस्थधर्म उक्तः, साम्प्रतं यतिधर्मावसर इति यतिमनुर्वर्णयिष्यामः १ ( २२७) । अर्हः अर्हसमीपे विधिप्रव्रजितो यतिः २ (२२८) । अथ प्रव्रज्यार्हः- आर्यदेशोत्पन्नः १, विशिष्टजाति- कुलान्वितः २, क्षीणप्रायकर्ममलः ३, तत एव विमलबुद्धिः ४, दुर्लभं मानुष्यं जन्म मरणनिमित्तं संपदश्चपलाः, विषया दु:खहेतवः संयोगे वियोग:, प्रतिक्षणं मरणम् दारुणो विपाकः इत्यवगतसंसारनैर्गुण्यः ५, तत एव तद्विरक्तः ६, प्रतनुकषायः ७, अल्पहास्यादिः ८ कृतज्ञः ९, विनीत : १०, प्रागपि राजामात्यपौरजनबहुमतः ११, अद्रोहकारी १२, कल्याणान: १३, श्राद्धः १४, १. प्रतिबन्ध: J१D || २.विशेषगृहस्थधर्मविधि ं J१ । विशेषतो गृहस्थविधि K१ । ३. यतिधर्मम १ ॥ ४. वर्त्तयि J.D. ॥। ५. विशिष्टकुलान्वितः ११ ॥
For Private & Personal Use Only
"
Jain Education International
धर्मबिन्दुसूत्रपाठः
१६६
www.jainelibrary.org