SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ श्रीपञ्च वस्तु. ॥ ३२ ॥ Jain Education Inter जायते विरागहेतुः - वैराग्यकारणं, धर्म्मध्यानस्य च निमित्तं महापुण्यवतां महापुरुषाणां तथोपलब्धेरिति गाथार्थः ॥ ९४ ॥ एतच्च विषयविरागादि महत्सुखमित्याह जं विसयविरत्ताणं सुक्खं सज्झाणभाविअमईणं । तं मुणइ मुणिवरो चिअ अणुहवउ न उण अन्नोऽवि१९५ यद्विषयविरक्तानाम् - असदिच्छारहितानां सौख्यं सद्ध्यानभावितमतीनां च धर्म्मध्यानादिभावितचित्तानां तत् मनुते - जानाति मुनिवर एव-साधुरेवानुभवतः - अनुभवनेन, न पुनरन्योऽपि - असाधुः, तथाऽनुभवाभावादिति गाथार्थः ॥ ९५ ॥ एतदेव समर्थयति कंखिज्जइ जो अत्थो संपत्तीए न तं सुहं तस्स । इच्छाविणिवित्तीए जं खलु बुद्धप्पवाओऽअं ॥ १९६ ॥ काङ्क्ष्यते-अभिलप्यते योऽर्थः - ख्यादिः सम्पत्त्या - सम्प्रात्या न तत्सुखं तस्य - अर्थस्य इच्छाविनिवृत्त्याऽत्र यत्खलु सुखं बुद्धप्रवादोऽयम् - आप्तप्रवादोऽयमिति गाथार्थः ॥ ९६ ॥ मुत्ती वभिचारो तं णो जं सा जिणेहिं पन्नत्ता । इच्छाविणिवित्तीए चेव फलं पगरिसं पत्तं ॥ १९७॥ मुक्त्या व्यभिचारः, तत्काङ्क्षणे तत्मात्यैव सुखभावाद्, एतदाशङ्कयाह - तत् न, यद् - यस्मादसौ - मुक्तिर्जिनैः प्रज्ञप्तातीर्थकरैरुक्ता इच्छाविनिवृत्तेरेव फलं न पुनरिच्छापूर्वकमिति, प्रकर्षप्राप्तं - सामायिक संयतादेरारभ्योत्कर्षेण निष्ठां प्राप्त - मिति गाथार्थः ॥ ९७ ॥ किञ्च -- For Private & Personal Use Only गृहत्यागस्य पापत्वनि रासः ॥ ३२ ॥ www.jainelibrary.org
SR No.600005
Book TitlePanchvastukgranth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages634
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy