________________
श्रूयते च एतद्व्यतिकरविरहेणापि-चैत्यवन्दनादिसम्बन्धमन्तरेणापि सः-विरतिपरिणामः इह-जिनशासने भरतादीनां महापुरुषाणामिति, कथमिति चेत् , उच्यते, तदभावे-विरतिपरिणामाभावे भावतः अभावः-असम्भवः यत्-यस्माद्भणित:उक्तः केवलस्य श्रुते-प्रवचन इति गाथार्थः ॥ ६५ ॥ संपाडिएऽवि अ तहा इमंमि सो होइ नत्थि एअंपि।अंगारमहगाई जेण पवजंतऽभवावि ॥ १६६ ॥
सम्पादितेऽपि च तथा अस्मिन्-चैत्यवन्दनादौ व्यतिकरे सति सः-विरतिपरिणामो भवति नास्त्येतद् अत्राप्यनियम एवेति, एतदेवाह-अङ्गारमई कादयो येन कारणेन प्रतिपद्यन्ते अधिकृतव्यतिकरमभव्या अपि, आसतां तावदन्य इति गाथार्थः ॥६६॥ किश्च-तच्चैत्यवन्दनादिविधिना सामायिकारोपणं सति वा विरतिपरिणामे क्रियेतासति वा ?, उभयथापि दोषमाह
सइ तंमि इमं विहलं असइ मुसावायमो गुरुस्सावि। तम्हा न जुत्तमेअंपवजाए विहाणं तु॥१६७॥ सति तस्मिन्-विरतिपरिणामे इर्द-चैत्य वन्दनादिविधिना सामायिकारोपणं विफलं, भावत एव तस्य विद्यमानत्वादन्ययताविव, असति-अविद्यमाने विरतिपरिणामे सामायिकारोपणं कुर्वतः मृषावाद एव गुरोरपि, असदध्यारोपणाद्, अपिशब्दाच्छिष्यस्यापि, अयताविव अप्रतिपत्तेः, यस्मादेवं तस्मान्न युक्तमेतत्-चैत्यवन्दनादिविधिना सामायिकारोपणरूपं प्रव्रज्याया विधानम् , एवमुभयथापि दोषदर्शनादिति गाथार्थः ॥ ६१॥ एष पूर्वपक्षः, अत्रोत्तरमाह
SHARESSAGAR
Jain Education Intern
For Private & Personal Use Only
Y
jainelibrary.org