________________
श्रीपञ्चवस्तु के.
॥ २७ ॥
Jain Education Interr
क्षायिकभावे च केवलं ज्ञानं, प्रतिपक्षयोजना सर्वत्र कार्येति, कैवल्य प्रतिपूर्ण प्राप्ते परमाक्षरो मोक्ष इति गाथार्थः ॥ ५९ ॥ पञ्चदशाङ्गः- पञ्चदशभेदः एषः - अनन्तरोदितः समासतः - सङ्क्षेपेण मोक्षसाधनोपायः - सिद्धिसाधनमार्गः, अत्र - मोक्षसाधनोपाये बहु प्राप्तं त्वया, शीलं यावदित्यर्थः, स्तोकं सम्प्राप्तव्यं, क्षायिकभाव केवलज्ञानद्वयमिति गाथार्थः ॥ ६० ॥ तत्तथा कर्त्तव्यं त्वया यथा तत् शेषं प्राप्नोषि स्तोककालेन, किमित्यत आह- शीलस्य नास्त्यसाध्यं जगति, तत्प्राप्तं त्वया, प्रव्रज्या प्रतिपन्नेति गाथार्थः ॥ ६१ ॥ लब्ध्वा शीलमेतत् किंविशिष्टमित्याह - चिन्तामणिकल्पपादपाभ्यधिकं, निर्वाण हेतुत्वेन, एतदेवाह - इह लोके परलोके च तथा सुखावहं परमुनिभिश्चरितम् - आसेवितमिति गाथार्थः ॥ ६२ ॥ एतस्मिन् शीले अप्रमादो - यत्नातिशयः कर्त्तव्यः सदा सर्वकालं 'जिनेन्द्रप्रज्ञप्ते' तीर्थकरप्रणीते, अप्रमादोपायमेवाहभावयितव्यं च तथा - शुभान्तःकरणेन विरसं संसारनैर्गुण्यं वैराग्यसाधनमिति गाथार्थः ॥ ६३ ॥
आह विरइपरिणामो पवजा भावओ जिणाएसो । जं ता तह जइअवं जह सो होइति किमणेणं? ॥१६४॥ आह परः किमाह ?, विरतिपरिणामः सकलसावद्ययोगविनिवृत्तिरूपः प्रव्रज्या भावतः - परमार्थतो जिनादेशः - अर्ह - द्वचनमित्थं व्यवस्थितमिति, यत् - यस्मादेवं तत्-तस्मात्तथा यतितव्यं तथा प्रयत्नः कार्यः यथाऽसौ - विरतिपरिणामो भवतीति किमन्येन चैत्यवन्दनादिक्रियाकलापेन ? इति गाथार्थः ॥ ६४ ॥ पर एव स्वपक्षं समर्थयन्नाह-| सुबइ अ एअवइअरविरहेण वि स इह भरहमाईणं । तयभावंमि अभावो जं भणिओ केवलस्स सुए ॥१६५॥
For Private & Personal Use Only
आचार्य
कृता धर्मकथा
॥ २७ ॥
wwww.jainelibrary.org