SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ पञ्चव. ५ Jain Education Inte तत्र लोकस्योद्योतकरं चिन्तयित्वा उत्सारयति संयमयोगं तदनन्तरभाविक्रियासेवनेन असम्भ्रान्तः सन् नमस्कारेण - "नमो अरहंताण" मित्यनेन, कायोत्सर्ग इति व्याख्यातं, साम्प्रतं सामायिकत्रयपाठ इति प्रतिपादयन्नाह - तत्पूर्वकं चनमस्कारपूर्वकं च वारास्ततस्तिस्रः इति गाथार्थः ॥ ४२ ॥ किमित्याह सामा अहि कइ सीसो अणुकड्डई तहा चेव । अप्पाणं कयकिच्चं मन्नं तो सुद्धपरिणामो ॥१४३॥ दारं सामायिकमिह पठति गुरुः शिष्यकोऽप्यनुपठति तथैव' गुरुविधिना, किंविशिष्टः सन्नित्याह-आत्मानं ' कृतकृत्यं' निष्ठितार्थं मन्यमानः शुद्धपरिणाम इति गाथार्थः ॥ ४३ ॥ सामायिकत्रयपाठ इति प्रतिपादितम् इदानीं प्रदक्षिणां चैवेत्यादि प्रतिपादयन्नाह - तत्तो अ गुरू वासे गिण्हिअ लोगुत्तमाण पाएसुं । देइ अ तओ कमेणं सङ्खेसिं साहुमाईणं ॥१४४॥ ' ततश्च' तदनन्तरं गुरुर्वासान् गृहीत्वा आचार्यमन्त्रेण अभिमन्य अनाचार्यस्तु पञ्चनमस्कारेण 'लोकोत्तमानां' जिनानां पद्भ्यां ददाति, मन्त्र नमस्कारपूर्वकमेव, ददाति च ततः तदनन्तरं 'क्रमेण' यथाज्येष्ठार्यता लक्षणेन सर्वेभ्यो यथासन्निहि| तेभ्यः साध्वादिभ्यः, आदिशब्दाच्छ्रावका दिपरिग्रह इति गाथार्थः ॥ ४४ ॥ तो बंदणगं पच्छा सेहं तु दवावए ठिओ संतो। वंदित्ता भणइ तओ संदिस्सह किं भणामोति ॥१४५॥ ततो वन्दनं पश्चात् - लोकोत्तमादिवासप्रदानोत्तरकालं शिष्यकं तु दापयति, स्थितः सन् ऊर्ध्वस्थानेन वन्दित्वा For Private & Personal Use Only www.jainelibrary.org
SR No.600005
Book TitlePanchvastukgranth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages634
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy