SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ Jain Education Inte पडिले हिउं पमज्जणमुत्रघाओ कह णु तत्थ होजा उ ? | अपमजिउं च दोसा वच्चादागाढवोसिरणे ॥ १३६|| प्रत्युपेक्ष्य चक्षुषा पिपीलिकाद्यनुपलब्धौ सत्याम् उपलब्धावपि प्रयोजनविशेषे यतनया प्रमार्जनं सूत्र उक्तम्, यतश्चैवमत उपघातः कथं नु तत्र भवेत् ?, नैव भवतीत्यर्थः सत्त्वानुपलब्धौ किमर्थं प्रमार्जनमिति चेत् उच्यते— सूत्रो| ततथाविधसत्त्वसंरक्षणार्थम्, उपलब्धावपि प्रयोजनान्तरे तु अप्रमार्जने तु दोषः, तथा चाह - अप्रमृज्य च दोषाः वर्च्च आदाबागाढव्युत्सर्गे आदिशब्दान्निश्येकाङ्गुलिकादिपरिग्रह इति गाथार्थः || ३६ || अप्रमार्जनदोपानाह— आयपरपरिच्चाओ दुहावि सत्थस्सऽकोसलं नूणं । संसज्जणाइदोसा देहे इव न विहिणा हुंति ॥ १३७ ॥ दारं ॥ यो हि कथञ्चित्पुरीषोत्सर्गमङ्गीकृत्यासहिष्णुः संसक्तं च स्थण्डिलं तेन दयालुना स तत्र न कार्यः कार्यो वेति द्वयी गतिः, किञ्चातः ?, उभयथाऽपि दोषः, तथा चाह - 'आत्मपरपरित्यागः' अकरणे आत्मपरित्यागः, करणे परपरित्याग इति, किश्चात इत्याह- द्विधाऽपि शासितुः - त्वदभिमततीर्थङ्करस्य अकौशलं नूनम् - अवश्यं, कुशलस्य चाकुशलतापादने आशातनेति, दोषान्तरपरिजिहीर्षयाऽऽह - संसर्जनादिदोषाः पूर्वपक्षवाद्यभिहिता विधिना परिभोगे न भवन्ति 'देह इव' शरीर इव, अविधिना त्वसमञ्जसाहारस्य देहेऽपि भवन्त्येवेति गाथार्थः ॥ ३७ ॥ रजोहरणमिति व्याख्यातम्, अष्टा इति व्याचिख्यासुराह अह वंदिउं पुणो सो भइ गुरुं परमभत्तिसंजुत्ते । इच्छाकारेणऽम्हे मुंडावेहत्ति सपणामं ॥ १३८ ॥ For Private & Personal Use Only 966 08 रजोहरणस्यावश्य कता गा. १३६-३८ www.jainelibrary.org
SR No.600005
Book TitlePanchvastukgranth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages634
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy